________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् अन्यत्रीरूपसर्वस्वपराजयावधानतः । तस्या जयावहौ भात आनकाविव सुस्तनौ ॥१३॥ जयस्तम्भाविव न्यस्तौ स्तनौ तस्या घनोन्नती। वीक्ष्यैवं पाण्डिताः माहुः सर्वस्त्रीरूपलोपनात् ।। देवीरूपं दधाना किं कामधेनुरियं किल । द्रष्टार इति शंसन्ति यतः कामदुधानया ॥१३॥ मुरूपं चारुनेपथ्यं मनोमोहनयौवनम् । तस्या दृष्ट्वा जनाः स्वीर्य किं त्यजन्ति न यौवनम् ॥ इन्द्रादयो हि ये देवा ऋद्धिमन्तस्तदीश्वराः । ते वशवर्तिनो यस्याः सा मोहयति किं न नृन् । यस्या अत्यद्भुता दृष्टिविकृता विकृतान्नरान् । निहन्त्यर्जुनयन्त्रेषुरिव सा रातु वाञ्छितम् ॥ गच्छन्ति सम्मुखं वीक्ष्य तां मां उन्नतस्तनीम् ।
__ त्यक्त्वा स्त्रीः पमिनीरुबगुच्छां वल्लीमिवाऽलिनः ॥१३९॥
१३६-द्वितीयं यौवनपदं युवतीवृन्दवाचकम् ।
१३८-सा शासनदेवता वाञ्छितं रातु-ददातु । सा का ? यस्या दृष्टिर्यस्या नेत्रं निहन्ति मारयति । कान् ? नरान् । कथंभूतान् ? विकृता द्वेषकामादिना विकारं प्राप्ताः शत्रवः कामिनो वा । आविकृता द्वेषकामादिना विकारं न प्राप्ता योगिन इत्यर्थः । ततः कर्मधारये विकृताविकृतास्तान् । कथंभूता दृष्टिरत्यद्भुता । का इव ! अर्जुनयन्त्रेषुरिव । यन्त्रेण मुक्ता इषुर्यन्त्रेषुः । मध्यपदलोपीसमासः । अर्जुनस्य यन्त्रेषु अर्जुनयन्त्रेषुः सा इव । यथा अर्जुनस्य यन्त्रेषुः शत्रून् हन्ति विफली न भवति तथा शासनदेवीदृष्टिरपि द्वेषकामादिना विकृतान्नरानिहंति द्वेषकामादिनाऽविकृतानरान् ब्रह्मचर्यादिवतपालनधैर्यभ्रंशात् निहन्ति-नितरां हन्ति न विफली भवति । अत्र यस्या इत्युपमेयस्य अर्जुन इति भिन्नलिङ्गोपमानं 'क्वापि भिन्नलिङ्ग तु मेनिरे' इति वाग्भटवचनात् । दृष्टरुपमानं यन्त्रेषुरिति । इषुशब्दः शरपर्यायः त्रिलिङ्गः शाकटायनमते, अमरस्तु इपुर्वयोरिति पुंत्रियोगह । अतोऽत्र स्त्रीलिङ्ग एव इषुशब्दो व्याख्येयः । चतुर्विधानि मायुधानि मुक्ताऽमुक्तादिभेदात् । यदाह हलायुधः-" मुक्तामुक्त-१ ममुक्तं २ करमुक्तं ३ यन्त्रमुक्तं च ४ ॥ शक्त्यादिपाणिमुक्तं स्यादमुक्तं क्षुरिकादिकम् । मुक्तामुक्तं च यष्ट्यादि यन्त्रमुक्तं शरादिकम् ।" इति । अतोऽत्र यन्त्रेषुरिति धनुर्मुक्तबाण इति युक्तोऽर्थः ।
१३९-गच्छन्तीति व्याख्या:-मां नरास्तां शासनदेवतां वीक्ष्य सम्मुखं गच्छन्ति । कथंभूतां ताम् ? उन्नतस्तनी-उन्नती उच्चौ स्तनौ यस्याः सा उन्नतस्तनी ताम् । स्वानाचोपसर्जनादसंयोगोपधादितिवैकल्पिको डी । वैकल्पिकङीषाभावे उन्नतस्तनाम् । किं कृत्वा स्त्रीः अर्थात् स्वकीयपरिणीतस्त्रीस्त्यक्त्वा । अत्रोपमानमाह-कां के इव, वल्ली अलिन इव भ्रमरा इव | यथा भ्रमरा वल्ली सन्मुखं यान्ति तथा । इवोऽत्र भिन्नक्रमे, उदाहुरिव वामन इतिवत् । किं कृत्वा पनिनीस्त्यक्त्वा । कथंभूतां वल्लीम् ? उपगुच्छां-उबा गुच्छाः कुसुमानां यस्यां सा तथा ताम ।