Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 49
________________ श्रीवल्लभोपाध्यायविरचितं [अष्टमा नाश्रयन्ति गृहस्थत्वं मदुक्तं बहुशोऽपि हि । शुद्धधर्मबलादेते जातसद्वचनाक्षराः॥४२॥ युग्मम् । ज्ञात्वैयं भूपतिर्धर्मे तान् विनिश्चिन्तचेतसः। प्रेषयामास सत्कृत्य गृहं सद्वस्तुभूषणैः ॥४३॥ अथायान्तिस्म ते तस्य हादुत्सवतोऽद्भुतात् । बलभद्रमहीपाल कृताद् हर्षप्रकर्षतः ॥४४॥ आगत्यावसथे नाथः सुरताणश्च सोदरः । दीक्षोत्सवसुसामग्री व्यदधातासुभौ मुदा ॥४५॥ वसन्त्यवसरे चास्मिन मेदिनीतटपत्तने । (पाठान्तरेण-मेडतानाम्नि पत्तने) तपागच्छे महीयांसः श्रावका व्यवहारिणः ॥४६॥ तद्यथा-कोठारीकुलविख्याताः कल्ला टोलासुतान्वितः । अर्जनश्चासकर्णश्च रेखा अम्माभिधस्तथा ॥४७॥ वीरदासो लसद्वीरदासचामरसिंहयुक् ।। अन्येऽपि स्वपरीवारयुता आसन्महत्तराः ॥४८॥ युग्मम् । श्रीसूजा-हरदासश्च ताल्हणः पुण्यकारणम् । सादा-माना-दयश्चान्ये मन्त्रिणोऽमी बमुस्तराम् ॥ पदा-पत्ता-जिणामुख्या मुख्याः सर्वषु कर्मसु । सोनीवंशे सदा रव्याता बभुवुः श्रावकोत्तमाः॥ सहसा-सुरताणारव्यावास्तां कर्णाटवंशके । कुले भाण्डारिके भातां रत्ना-मोकाभिधानकौ ॥ श्रीमान् ठाकुरो नाम शङ्करः शङ्करः सदा । मानो नरहरश्वेते शङ्खलान्वय आवभुः ॥५२॥ ४१-४२-दृढ इति व्याख्या०-एते षण् नराः नाथा १ सुरताण २ नायकदेवी ३ केशव ४ कर्मचंद्र ५ कपूरचन्दाः ६ गृहस्थत्वं नाश्रयन्ति न सेवन्ते । कथं० गृहस्थत्वं; हि निश्चितं बहुशः मदुक्तं बलभद्रेण राज्ञा उक्तं । कस्मानाश्रयन्ति शुद्धधर्मबलात् । कथं० एते जातसदचनाक्षरा:सत्सत्याद् वचनान्न क्षरन्ति न पतन्तीति सद्वचनाक्षराः। जाताश्चते सदचनाक्षराश्च जातसद्वचनाक्षराः । के इव उत्प्रेक्ष्यते-दृढधर्मादयः शब्दा इव । यथा दृढधर्मादयः शब्दाः जातसद्वचनाक्षरा:जातं सत्सु सत्येपु वचनेषु प्रथमादीनां सप्तविभक्तीनां एकद्वित्वादिवचनेषु अक्षरं नकारादिलक्षणो वर्णो येषां ते जातसदचनाभराः । तथा एतेऽपि षड् नरा इत्यर्थः । कथंभूताः; दृढधर्मादयः शब्दाः विशेषतां विशेषभावं प्राप्ताः। किं कृत्वा ? आत्मनः स्वस्य पूर्वी अकारन्ततां प्रकृति सूत्रात् धर्मादच केवलात् इति लक्षणात्त्यक्त्वा । द्वितीयपक्षे कथं भूता एते विशेषतां प्राप्ताः सामान्यश्रावकलोकापेक्षया साधुधर्माङ्गीकारात् विशेषत्वं प्राप्ताः । किं कृत्वा पूर्वी प्रथमां प्रकृति श्रावकधर्मलक्षणां पापप्रकृति वा त्यक्त्वा । अत्र एते इति उपमेयपदं, दृढधर्मादयः शब्दा उपमानपदं; शुद्धधर्मवलादिति उपमेयपदं; सूत्रात् इति उपमानपदम् । ४८-कोठारी । ४९-मुंहता । ५०-सोनी । ५१-भण्डारी । ५२-सांखला । ५३-भडकतीया।

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140