Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् रत्नसिंहो नृणां रत्नं राजसिंहो नृराजितः । सीहमल्ल-रता नाम प्रमुखा विदिता बभुः॥५३॥ सदारङ्गः सदारङ्गो धनो धन्यो धनीश्वरः । सुरताण इमेऽभूवन् श्रीभडकतियान्वये ॥५४॥ सुरत्राणः कृतत्राणः टाहा हाहाविवर्जितः । त्रिलोकश्रीरमीपालः सचिंतीकुल आवभुः ॥५५॥ संघपः षेतसी ख्यातो मन्त्री नरबदस्तथा । रविदासो रवित्रासाः प्रतापादभवनमी ॥५६॥ द्रव्यदायी सदा देदा वंगाणी सद्गुणाग्रणीः। अभाच्छ्रीमत्तपानाम-सद्गच्छोद्योतकारकः॥ भारमल्लः सदामल्ल-तुल्यो दानबलादिभिः । रविदासस्तथाऽभातामेतौ तातहडान्वये ॥५८॥ देवीदासा धनो नाम डूंगरो वत्सनामकः । अशोभन्त त्रयोऽप्येते सर्वदा सर्ववत्सलाः॥१९॥ सुरत्राणः स्फुरत्माणः शार्दूलः स्थूलभूपनः । जीवाभिधस्तथेत्याचा आसन् षीमसरान्वये ॥ भैरवो वर्धनो वीर एते भाण्डारिके कुले । व्यराजन्त च देपालः परीक्षककुलेऽभवत् ॥११॥ महिकाभिध ऊदाह्रो मायीदासः सुमायिकः । इत्यादयो महीयांसो बभूवुर्गच्छदीपकाः॥५२॥ अत्रत्यैरेभिरन्येश्च परदेशागतैरपि । एतेषामचिकीर्ण्यन्त वरयात्रावरास्तिकैः ॥६॥ अत्रान्तरे मृशन्नेवं षण नरास्ते परस्परम् । श्रीमत्कपूरचन्द्रस्य दाक्षा योग्या न बाल्यतः॥६॥ भवेत् कपूरचन्द्रो हि यावत्सप्ताब्दिकः किल । तावत्तिष्ठतु मातास्य पालनाय तदादरा ॥६५॥ प्रगृह्णातु ततो दीक्षां माता पुत्रेण संयुता । पालनीयास्ति कण्टेन दीक्षा यन्महतामपि ॥६६॥ विचार्यैवं तदा नाथो दीक्षाग्रहणतः खलु । निवार्यास्थापयत् पुत्रयुतां मातरमालये ॥६७॥ साप्यस्थात्पुत्रसंयुक्ता पुत्रपालनहेतवे । पत्युः कथनकारित्वं पत्न्या धर्मः सदोत्तमः ॥६॥ कुर्वाणा परमं धर्मं श्रावकं वतिनीव हि । पत्न्यतिष्ठत् सुतं तस्य पालयन्ती च सव्रतम् ॥ केशवः कर्मचन्द्रश्च नाथस्यात्मरुहाविमौ । नाथः पिता तयोरेव पितृव्यः सुरताणकः ॥७॥ चत्वारश्चतुरा एते कर्मारीन् हन्तुमुद्यताः । द्रव्यं दारांश्च संत्यज्य दीक्षायामभवन पराः ॥७१॥
(चत्वारश्चतुरा एते दीक्षाग्रहणतत्पराः।
बभूवुरल्पकर्माणः संत्यज्य स्वगृहांस्ततः ॥७१॥ इति पाठान्तरम् )-युग्मम् । ते यच्छन् प्रत्यहं पातविणं स्वगृहोचितम् । दीनेभ्यो याचकेभ्यश्च दिव्यधान्याम्बराणि च ॥ पूर्वोक्ता अथ ते श्रीमन्मेदिनीतटवासिनः । श्रावका भोजयन्ति स्म चतुरस्तान् घनादरात् ।।
५५-संचिन्ती त्रिलोकश्रीः तिलोकसी इति नामेत्यर्थः । हाहा सुरस्वरः । ६५-तस्मिन् कपूरचन्दनाम्नः पुत्रस्य पालने आदरो यस्याः सा तदादरा ।
६९-तस्य नाथस्य पत्नी नायकदेवीनानी । श्रावकस्यायं श्रावकः तं, तस्येदमित्यण श्रावकसम्बन्धिनमित्यर्थः ।
७१-ततः नाकयदेव्या कपूरचन्दस्य च गृहे रक्षणानन्तरं स्वं च द्रव्यं गृहांध दारान् ।

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140