Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः]
५५
विजयदेवसूरि-माहात्म्यम् विजयवरांन्द्रः कनकविजयाह्वयम् । उपाध्यायपदं दत्वा तदिदमवदन्मुखा ॥५८ ॥ इदमिति किं तदाह
[त्रिभिर्विशेषकम् । कनकविजयाख्योऽयमुपाध्यायशिरोमणिः । समक्षं सर्वसंघस्य नानादङ्गागतस्य हि ॥१९॥ निशम्येति ततः संघाः सर्वदेशनिवासिनः । ववन्दिर उपाध्यायकनकविजयाह्वयम् ॥६०॥ धर्माशिषं तदानन्दात् श्रीसडन्स्य सुखावहाम् । उपादिशदुपाध्यायः कनकविजयायः॥६१॥ तद्यथा-अर्हत्सिद्धवराचार्योपाध्यायाः साधुसंयुताः । श्वाश्रेयसं सदा कुर्युः पञ्चैते परमेष्ठिनः॥ श्रुत्वोपदेश ते सङ्घा उदतिष्ठस्तदग्रतः । तेषां पाणौ च रूप्याणि ददौ लालीः स्वलीलया ॥ सर्वान्सडांस्ततो लालीः प्रभोज्याद्भुतभोजनम् । विससर्जातिसत्कारपरिष्कारादिदानतः॥ लाली श्राद्धी चकारैवमुपाध्यायपदोत्सवम् । कनकविजयो जीव्यात् स चिराय यदीयकम् ॥
-इति श्रीकनकविजयस्य उपाध्यायपदम् ॥ अथास्ति भरतक्षेत्रे सर्वस्वर्गसुखादिकम् । निर्वित्तिकसम्पत्तिपुरमीडरसत्पुरम् ॥ ६६ ॥ कल्याणमल्लभूपाला सर्वकल्याणकारणम् । निरुपद्रवसाम्राज्यं भुनक्ति व्यक्तशक्तितः ॥१७॥ व्यवहारी सदाहारीश्वरेश्वरपुरस्कृतः । तत्र भावित्रभृगात्रः श्रेष्ठी वसति नाकरः ॥ ६८॥
(नाकरः श्रावकोऽवसत्-इति वा पाठः) सहानादिगुणान् यस्य त्रिदशैः सहजूरपि । वक्तिरन्यो न किं वक्तिः सहजूरस्ति तत्सुतः ॥
(वक्तिरन्यस्य का वार्ता सहस्तत्सुतोऽभवत्-इति वा पाठः) विगताना कदाप्याजूः कारायां नुर्न कस्यचित् । यस्य प्रभावतो लोके सहजूः स विराजते ॥
६४-अतिसत्कारेण परिष्कारादीनामलकारादीनां दानं अतिसत्कारपरिष्कारदानं तस्मादतिसत्कारपरिष्कारादिदानतः । अलङ्कारस्तु भूषणं परिष्काराभरणे चेति हैमः । परिष्कार इत्ययं मूर्धन्यकवर्गाचमध्यः ।
६८-तत्र श्रीमति ईडरपुरे श्रेष्ठी नाकरो वसति । कथंभूतः ? व्यवहारी । पुनः कथं०१ सदा निरन्तरं हारीश्वरेश्वरपुरस्कृतः-हारयो मनाहरा ये ईश्वरा घनिनस्तेषामीश्वराः स्वामिनस्तेषु पुरस्कृतो यस्स । तथा चारुहारिरुचिरं मनोहरमिति हैमः। पुनः कथंभूतः ? भावित्रभृद्गात्रः कल्याणयुक्तदेह इत्यर्थः ।
६९-तत्सुतः नाकरसुतः । जूराकाशसरस्वत्यां पिशाच्या जवनेऽपिचेति महेश्वरः ।
७०-यस्य प्रभावतो लोके कदापि कदाचित्रुनरस्य कारायां बन्दो न आजूः न हठात्क्षेपः। कथंभूतः सहजूः? विगतात:-विगता आजूः हठात्क्षेपो यस्मात्स विगताजू । अनेन स्वेच्छाचारित्वं दर्शितम् । सहजाई स्वेच्छयैव स्वस्थान्येषां च ऋणादानादिन्यायानां कार्येषु प्रवर्तते । परं नान्ये

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140