Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचित
[नषमः उत्थाय तत आनन्दादागत्यास्थानमन्दिरम् । आकारयच्छुभेऽह्नि साकमतिमाकारिणो नरान्॥ तेऽप्याजग्मुस्तदाहूताः कृत्वा ज्योक्कारमादरात् । आसन्त पुरतस्तस्य तेनैवोक्तवराज्ञया ॥ तदैवं कथयामास तानईडिम्बकारिणः । द्वासप्ततिजिनेन्द्राणां कुर्वन्तु प्रतिमा वराः ॥१७॥ तदा तदाशयैवं ते प्रतिमाकारिणो नराः । चक्रुरपतिमा अईत्पतिमाः प्रतिमोत्तमाः ॥१८॥ वर्तमानादिसत्कालत्रयसम्बन्धिनीरिमाः । द्वासप्तति जिनेन्द्राणां प्रतिमा महिमासमाः॥ आदायानीय तस्याने ढोकयामासुराशु ते ।
हृधमोदत ता दृष्ट्वा श्रावकश्रीविशावदाः ॥२०॥ युग्मम् । अकारयजिनागारं शकन्दरपुरे तदा । श्रीचिन्तामणिपार्श्वस्य चैत्यस्यान्तिकमुत्तमम् ॥२१॥ प्रतिमानामथ श्रेष्ठां प्रतिष्ठां श्रीप्रतिष्ठया । विजयसेनसूरीन्द्रकरात्कारयति स्म सः ॥२२॥ तस्मिन्नवसरे सूरि विज्ञप्यांही प्रणम्य च । वदतांवर इत्याख्यत् श्रावकः श्रीविशावदाः॥२३॥ श्रीकीर्तिविजयाख्योऽयं कनकविजयोऽप्ययम् । शिष्यपशिष्यावेतौ ते भ्रातरौ द्वाविमौ मिथः॥ राजसुन्दरनामाऽयं कुशलविजयः पुनः। कमलविजयश्चैते पञ्च पञ्चमपञ्चमाः॥२५॥ एतेषां विदुषां देहि पदं पण्डितनामकम् । श्रीसंघाग्रहतः श्रीमद्विजयसेनसद्गुरो ! ॥२६॥
-त्रिभिर्विशेषकम् । विजयसेनसूरीन्द्रस्ततस्तस्याग्रहाद् घनात् । ददौ तेषां हृदानन्दि पदं पण्डितनामकम् ॥२७॥ रूपकाणि मुदा मादात् तत्पण्डितपदोत्सवे । साधर्मिकादिलोकानां प्रतिहस्तं विशावदाः॥ अन्येऽपि श्रावका इभ्याः सभ्या: समयवेदिनः धर्माभिलाषिणो रूप्यैश्वकुलम्भनिकां मिथः॥ अहो पुण्यवतां पुंसां प्रभावः प्रभवत्यपि । मनोरथानां लाभाय परेषां छुपकारकृत् ॥३०॥
१९-कथं भूताः प्रतिमाः ? महिमासमा:-महिना माहात्म्येन न समाः सदृशा यास्ता महिमाऽसमास्ताः।
२५-पञ्चमेषु चतुरेषु पञ्चमा हृद्या ये ते पञ्चमपञ्चमाः। पञ्चमश्चतुरे हृये इति महेश्वरः।
२७-तेषां कीर्तिविजय १ कनकविजय २ राजसुन्दर ३ कुशलविजय ४ कमलविजयानां ५ पण्डितपदस्योत्सवः तत्पण्डितपदोत्सवस्तं । प्रतिहस्तमित्यत्र 'लक्षणे १ स्थंभूताख्यान २ भाग ३ वीप्सासु ४ प्रतिपर्यऽनव' इति लक्षणेऽर्थे प्रतियोगे हस्तमिति द्वितीया । प्रतिहस्तं हस्तं लक्षाकृत्येत्यर्थः । रूपकाणि नाणकानि । रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोरिति महेश्वरः । स्वार्थिक के रूपकम् ।
२९-रूप्यं दीनारप्रमुखनाणकं । रूप्यं स्यादाहतस्वर्णरजते रजतेऽपि चेति महेश्वरः । यथा-मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकमिति ।।
३०-प्रभवत्यपि समर्थो भवत्येवेत्यर्थः । अपीति निश्चये । कथंभूतः प्रभावः हिर्यस्माकारणात् उपकारकृत् ।

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140