Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
४२
श्रीवल्लभोपाध्यायविरचित
[अष्टमः अथास्मिन् समये शास्ति बलभद्रो महीपतिः। राज्यं श्रीमेडताद्रङ्गे भ्रातृगोपालसंयुतः ॥१८॥ सोऽशृणोत् लोकवार्तति प्रव्रजन्ति हि षण्णराः।
पिता माता त्रयः पुत्राः पितुर्धाता तथा महान् ॥ १९ ॥ गृहं गृहांश्च सत्यज्य प्रभूतानि धनानि च । स्वयंबुद्धा इव ज्ञानात् मिथोबुद्धा विवादतः॥२०॥ रूपस्वभावलावण्यैरुत्तराः कुरवः किमु । नोत्तरे चापरे लोका यानाख्यान्तीति पण्डिताः॥२१॥ बलभद्रमहीपालस्तदेत्याकर्ण्य विस्मितः । तान् समाकारयामास प्रविमुच्य निजं नरम् ॥२२॥ नृपप्रैष्यस्ततस्तेषां गृहे गत्वेत्युपादिशत् । ह्वयते बलभद्रोऽसौ युष्मान् भो षण्णनरा द्रुतम् ॥
२०-गृहं मन्दिरं गृहान् परिणीतस्त्रीः स्त्रियं वा । परिणीतस्त्रीवाची गृहशब्दः पुंक्लीबलिङ्गः पुंस्ययं बहुवचनान्त एव । मिथः परस्परं बुद्धाः ज्ञातधर्माधर्मफलाः। एतौ अदृष्टाऽभुक्तभागी केशवकर्मचन्द्रनामानौ पुत्री बालको यदि प्रव्रजतस्तहि वयं भुक्तभोगाः संसारे कथं तिष्टाम, न स्थास्याम इति कारणादेव मातृपितृपितृव्या यथाक्रमं मिथो बुद्धाः। कस्मात् ज्ञानात् । अत एव, पुनः कस्मात् विवादतः । कथंभूता एते उत्प्रेक्ष्यते स्वयंबुद्धा इव ।
२१-पण्डिता यान् मातृपितृपितृव्यपुत्रान् षड् नरान् इति आख्यान्ति कथयन्ति । इतीति किं; कथंभूताः षण्नराः। किमु इत्यव्ययं विचारे । रूपस्वभावलावण्यैः करणभूतैः । उत्तराः कुरवः उत्तरकुरुक्षेत्रोत्पन्ना युगलिन इति विचारयन्ति । न अपरे अन्ये लोका उत्तरे उत्तरदेशोद्भवाः । यादृशाः रूपस्वभावलावण्यैः उत्तरकुरुक्षेत्रोत्पन्ना युगलिनः सुन्दरास्तथा एते षणनराः अपि सुन्दराः, नान्ये उत्तरदेशोत्पन्ना लोका इत्यर्थः । उत्तराः कुरव इत्यत्र सत्यामपि न नानीति निषेधकथनात् पूर्वापरेति सूत्रेण वैकल्पिको जसः शी न भवति । व्यवस्थेति कोऽः । स्वाभिधेयापेक्षोऽवधिनियमो व्यवस्था । अस्वार्थ:-स्वाभिधेयो दिगदेशकालस्वभावोऽर्थस्तमपेक्षते यः सः स्वाभिधेयापेक्षः । एवं विधो योऽवधिनियमः स व्यवस्था । तत उत्तरशब्दस्य दिगदेशकालस्वभावे अर्थे सत्यपि उत्तरशब्दात्पूर्वापरेति वैकल्पिको जसः शीभावनिषेधो नामत्वात् । ननु उत्तरशब्दस्य दिग्देशकालस्वभावानां नामत्वे सत्यपि न नानीति ऋथं कथयतेति चेत् ब्रुमः-कुरवो द्विधा-मेरुपर्वतात् दक्षिणस्यां दिशि भवत्वात् देवकुरवः । देवशब्दपूर्वत्वेनैव प्रसिद्धत्वात् तेषां न दक्षिणशब्दपूर्वत्वेनेति उत्तरस्यां दिशि भवत्वात् । उत्तरशब्दपूर्वत्वेनैव प्रसिद्धत्वात् । उत्तराः कुरव इति कुरव इत्युक्तेश्च सामान्येन उभयोः देवकुरव उत्तरकुरव इत्यनयोग्रहणं स्यात् । तत उत्तरशब्दस्य विशेषस्य द्योतकत्वात् उत्तरा इत्युक्तरुत्तराः कुरव इति लभ्यते । अत उत्तरशब्दस्य कुरव इत्यस्य नामान्तरद्योतकत्वात् । नानीति कथनं न दुष्टं । उत्तर इत्यत्र पूर्वापरेति वैकल्पिके जसः शीभावे प्रथमा बहुवचनं । नात्र प्रत्ययो न च तस्य लोपः । कुरव इत्यत्र जनपदे लुप् इति अण प्रत्यय लुपि सति लुपियुक्त वद् व्यक्तिवचने इति प्रकृतिवत् लिङ्गवचने शेये ।

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140