________________
श्रीवल्लभोपाध्यायविरचितं
[अष्टमा नाश्रयन्ति गृहस्थत्वं मदुक्तं बहुशोऽपि हि ।
शुद्धधर्मबलादेते जातसद्वचनाक्षराः॥४२॥ युग्मम् । ज्ञात्वैयं भूपतिर्धर्मे तान् विनिश्चिन्तचेतसः। प्रेषयामास सत्कृत्य गृहं सद्वस्तुभूषणैः ॥४३॥ अथायान्तिस्म ते तस्य हादुत्सवतोऽद्भुतात् । बलभद्रमहीपाल कृताद् हर्षप्रकर्षतः ॥४४॥ आगत्यावसथे नाथः सुरताणश्च सोदरः । दीक्षोत्सवसुसामग्री व्यदधातासुभौ मुदा ॥४५॥ वसन्त्यवसरे चास्मिन मेदिनीतटपत्तने । (पाठान्तरेण-मेडतानाम्नि पत्तने)
तपागच्छे महीयांसः श्रावका व्यवहारिणः ॥४६॥ तद्यथा-कोठारीकुलविख्याताः कल्ला टोलासुतान्वितः ।
अर्जनश्चासकर्णश्च रेखा अम्माभिधस्तथा ॥४७॥ वीरदासो लसद्वीरदासचामरसिंहयुक् ।।
अन्येऽपि स्वपरीवारयुता आसन्महत्तराः ॥४८॥ युग्मम् । श्रीसूजा-हरदासश्च ताल्हणः पुण्यकारणम् । सादा-माना-दयश्चान्ये मन्त्रिणोऽमी बमुस्तराम् ॥ पदा-पत्ता-जिणामुख्या मुख्याः सर्वषु कर्मसु । सोनीवंशे सदा रव्याता बभुवुः श्रावकोत्तमाः॥ सहसा-सुरताणारव्यावास्तां कर्णाटवंशके । कुले भाण्डारिके भातां रत्ना-मोकाभिधानकौ ॥ श्रीमान् ठाकुरो नाम शङ्करः शङ्करः सदा । मानो नरहरश्वेते शङ्खलान्वय आवभुः ॥५२॥
४१-४२-दृढ इति व्याख्या०-एते षण् नराः नाथा १ सुरताण २ नायकदेवी ३ केशव ४ कर्मचंद्र ५ कपूरचन्दाः ६ गृहस्थत्वं नाश्रयन्ति न सेवन्ते । कथं० गृहस्थत्वं; हि निश्चितं बहुशः मदुक्तं बलभद्रेण राज्ञा उक्तं । कस्मानाश्रयन्ति शुद्धधर्मबलात् । कथं० एते जातसदचनाक्षरा:सत्सत्याद् वचनान्न क्षरन्ति न पतन्तीति सद्वचनाक्षराः। जाताश्चते सदचनाक्षराश्च जातसद्वचनाक्षराः । के इव उत्प्रेक्ष्यते-दृढधर्मादयः शब्दा इव । यथा दृढधर्मादयः शब्दाः जातसद्वचनाक्षरा:जातं सत्सु सत्येपु वचनेषु प्रथमादीनां सप्तविभक्तीनां एकद्वित्वादिवचनेषु अक्षरं नकारादिलक्षणो वर्णो येषां ते जातसदचनाभराः । तथा एतेऽपि षड् नरा इत्यर्थः । कथंभूताः; दृढधर्मादयः शब्दाः विशेषतां विशेषभावं प्राप्ताः। किं कृत्वा ? आत्मनः स्वस्य पूर्वी अकारन्ततां प्रकृति सूत्रात् धर्मादच केवलात् इति लक्षणात्त्यक्त्वा । द्वितीयपक्षे कथं भूता एते विशेषतां प्राप्ताः सामान्यश्रावकलोकापेक्षया साधुधर्माङ्गीकारात् विशेषत्वं प्राप्ताः । किं कृत्वा पूर्वी प्रथमां प्रकृति श्रावकधर्मलक्षणां पापप्रकृति वा त्यक्त्वा । अत्र एते इति उपमेयपदं, दृढधर्मादयः शब्दा उपमानपदं; शुद्धधर्मवलादिति उपमेयपदं; सूत्रात् इति उपमानपदम् ।
४८-कोठारी । ४९-मुंहता । ५०-सोनी । ५१-भण्डारी । ५२-सांखला । ५३-भडकतीया।