________________
श्रीवल्लभोपाध्यायविरचित
[सप्तमः निरवर्ततसत्कान्त एवं मूरिदासकः । न्यवर्तत च सर्वषां सन्ततिर्दुरितांहसाम् ॥११॥ ततः सर्वत्र सर्वत्र पावर्तत जयारवः । श्रीसूरेः श्रावकेशस्य श्रीमल्लस्य च निर्मलः ॥१२॥ श्रीमत्पत्तनसढ्ने निरमाद् वन्दनोत्सवम् । सहस्रवीर आनन्दाद्यस्य द्रव्यव्ययाद् घनात्॥९॥ षोडशस्य शतस्यास्मिन् अष्टपश्चाशवत्सरे । षष्ठयां पौषस्य कृष्णायां गुरुवारे शुभावहे ॥९॥ ततः शंखेश्वरं पार्थजिनं नन्तुं च जग्मतुः । गुरुशिष्यावलक्ष्येतां सल्लाकैविनयात्तदा ॥१५॥ मरुदेशनिवास्यत्र हेमराजश्च सङ्घपः । शत्रुअये जिनानन्तुं गच्छंस्तावभ्यवन्दत ॥ ९६ ॥ समस्तमरुदेशादिदेशवासिजनान्वितः । स्वभुजोपार्जितद्रव्यव्यय कुर्वननेकधा ॥९॥ बहवोत्राभवन् भव्याऽवदाताश्चोत्सवा नवाः । निर्मिताः श्रावकैवक्तुं तानलं नाऽलसो यतः॥
इत्थं वासकुमार एष उदयी प्राकपुण्यपुण्यार्जनात् , श्रीमत्सूरिपदं क्रमादलभत प्राप्तिकसाम्राज्यकम् । श्रीश्रीवल्लभपाठकेन पठितं लभ्यं न पुण्यं विना,
श्रुत्वेति प्रवणा भवन्तु भविका धर्मे मनःशुद्धितः ॥१९॥ इति श्री श्रीवल्लभोपाध्याय विरचिते श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजयदेवसूरि सूरिपदप्रदानवर्णनो नाम सप्तमः सर्गः ॥७॥
न्धुपुरश्रीमदहम्मदावादादिनगरनिवासिनः श्रावकाः । अनाहूतानिति विशेषणेन च श्रीस्तंभतीर्थ निवासिनः श्रावका इत्यर्थोऽवसेयः ।
९२-सर्वान् त्रायते इति सर्वत्रः सर्वरक्षकः। सूरिपदोत्सवे बन्दिलोकाः कारातः छोटिताः। चटकादयो जन्तवोऽपि पखरादितः छोटिता इति सर्वत्र इतीदं विशेषणं पुष्टम् ।
९३-सहस्रवीर: पारिक्खगोत्रः।
९५-पश्चिमार्धव्याख्या । तदा तस्मिन्काले श्रीविजयसेनसूरि श्रीविजयदेवसूर्योः श्रीशद्धेश्वरपार्श्वजिननमस्करणहेत श्रीशजेश्वरनगरप्राप्तिसमये सल्लोकैः पण्डितलोकैर्विनयात् किंचिदुचावचभद्रासनोपवेशनात् गुरुशिष्यौ श्रीविजयसेनहरिगुरुः श्रीविजयदेवसरिःशिष्यः अलक्ष्येतामज्ञायेतामित्यर्थः।
९८-अत्र श्रीशद्धेश्वरनगरे मरुदेशनिवासी पिंपाडियामवास्तव्यः साहश्रीताल्हासुतो हेमराजसंघपतिस्तो श्रीविजयसेनसूरिश्रविजयदेवेसूरिकर्मतापनी अभ्यवन्दत । शेषं सुगमम् ।