________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् अथ भोजनसामग्रीं कारयामास सोऽग्रिमाम् । सुधामिव सुरेन्द्राणां नराणामतिवल्लभाम् ॥
तत्रादौ मोदका. दिव्यान् खन्जकान् सज्जनोचितान् ।
कुण्डलीघृतपुरादीन् श्रीसंज्ञैलादिमिश्रितान् ॥ ७७ ॥ एतानेव च कर्पूरकाश्मीरद्रव्यसंयुतान् । अन्यानपि महावीर्यान् बहुजातीनकारयत् ॥ ७८ ॥ ततो नानाविधानेकदेशेभ्यो व्यवहारिणः । श्रावकानाहयामास तेऽप्यागच्छन् समृद्धितः ॥ आनन्ददायिनं नन्दि न कैश्चिदपि निन्दितम् । अथारोपयदानन्दात्स तदा सतदादृतः ॥४०॥ तस्योपरि चतुर्दिक्षु चतुरश्चतुरो जिनान् । स्थापयामास साक्षित्वे सर्वविघ्नोपशान्तये ॥१॥ मण्डपेऽथ समागच्छदतुच्छोत्सवपूर्वकम् । विजयसेनसूरीन्द्रो विद्याविजयसंयुतः ॥८॥ संभूय श्रावका लोकास्तथान्ये तं दिदृक्षवः । आसतान्तर्बहिश्चैव मण्डपस्य यदृच्छया ॥८॥ षोडशस्य शतस्यास्मिन् सप्तपश्चाशसंवति । वैशाखशुदि चतुर्थी गीतगानादिपूर्वकम् ॥८४॥ सूरिमन्त्रमयो मूरिः प्रादात् पाणौ तदीयके । अश्रावयञ्च तत्कणे दक्षिणे घुसणार्चिते ॥८॥ सूरिमन्त्रं प्रदायाथ सूरिरित्यब्रवीन्मुखात् । सूरिविजयदेवोऽयं सर्वसट्टन्समक्षकम् ॥८६॥ अर्हत्सिद्धसदाचार्योपाध्यायाः साधुसाधवः । कुर्युः सन्स्य कल्याणं पञ्चैते परमेष्ठिनः ॥८७॥ इत्याशीर्वच उत्कृष्टादेिशर्मसाधकम् । विजयदेवसूरीन्द्रस्ततः सहस्य सद्राि ॥८॥ श्रीमल्लः श्रावको हर्षात्ततो रूप्याणि सादरः। ददौ श्रावकसम्भ्यो याचकेभ्योऽपि भावतः।। भोजनानि पुरोक्तानि मोदकादीन्यभोजयत् । आहूतानप्यनाहूतान् श्रावकान् स जनानपि ॥ पक्षे लिखिताः । पुनः कथं० १ नानाकारा विविधचित्राः । द्वितीयपक्षे विविधाकृतयः । पुनः कथं भूताः० ? बुधादराः बुधानां अर्थात् महद्धिकोत्तमलोकानां आदरो येषु ते । तथा महद्धिकोत्तमलोकयोग्या इत्यर्थः । द्वितीयपक्षे । पुन कथं० बुधैराद्रियन्ते इति बुधादराः।
८०-तस्मिन् नन्दी अर्थात् नन्दिरचनायाः करणे आटताः आदरवन्तः नन्दिरचना करणप्रवीणा नरा इत्यर्थः । तदाहता सह तदादृतैर्वर्तते यः स सतदादृतः । नन्दिरचनाकरणप्रवीण नरसंयुत इत्यर्थः ।
८९-अत्र रूप्यशब्दो नाणकपर्यायः । यन्महेश्वर:-रूप्यं स्यादाहतस्वर्णरजतेऽरजतेऽपि चेति । यथा-मणिरूप्यादिविज्ञानं तद् विदां नानुमनिकमितिः ।
९०-स श्रीमल्लः श्रावकः श्रावकान् अपीति समुपये जनान् अर्थात् श्रावकेभ्योऽन्यान् लोकांश्च पुरोक्तानि मोदकादीनि भोजनानि अभोजयत् । कथंभूतान् श्रावकान आहूतान् परदेशेभ्यः परनगरेभ्यो वा आकारितान् । पुनः कथं० अनाहूतान् अनाकारितान् परदेशापेक्षया परनगरापेक्षया वा खनगरनिवासिन इत्यर्थः । आहूतानिति विशेषणेन पत्तनराजधनास