Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 24
________________ सर्गः विनयदेवसूरि-माहात्म्यम् पञ्चमः सर्गः अथ श्यहम्मदावादे स्थिरः श्रेष्ठी समाययौ । पुत्रस्य स्वस्य पल्याच दीक्षापाहणहेतवे ॥१॥ गृहे गृहिण एकस्य यावद्वसनभाटकम् । दत्त्वा तत्रावसदृश्यः पुण्यात्मा पुरुषोत्तमः ॥२॥ अथारेमे ततः श्रेष्ठी दीक्षायाः सन्महोत्सवम् । श्रीमद्वासकुमाराख्य-पुत्रस्य स्वस्य च खियः॥ तद्यथा-व्यचित्रयविचित्राणि चित्राणि वरवर्णकैः । गृहभित्तीः सुनिच्छित्तीः कविः काव्यततीरिव ॥४॥ गृहस्य मानणं प्राभात् स्वतिकाब्जादिमण्डनैः। मण्डितं पण्डितस्त्रीभिस्तदा चित्रितवस्तुवः ॥ चन्द्रोदयचयो यत्र प्रतिस्थानं नियन्त्रितः । चन्द्रोदय इव पायो मनोहरन्मनोहरः ॥६॥ बद्धमुचैः कचित्तत्र स्थूलं स्थूलं व्यलीलसत् । शृङ्गारमिव रोदस्योः मालम्बनकसः तम् ॥७॥ यत्र हाजापटेलस्य प्रतोली बहुलालया। अस्ति, सन्ति हि यस्यां च सकला बहुलालया। मण्डपं मण्डयामास दीक्षायास्तत्र सुन्दरम् । पञ्चवर्णमयैर्वस्वैश्चित्रकद्भिर्विचित्रितैः ॥ युग्मम् ॥ मुखमल्ला बभुर्यत्र मुखमल्ला बुधा इव । वाणीवर्णविशेषाणां रचनाभिरमकाः॥१०॥ जरबाफादयः क्वापि विशेषा वाससामिमे । वमुनेत्रमिया यत्र नानाविच्छित्तिनिर्मिताः॥११॥ आयाताः सूर्यचन्द्रायाः ग्रहा इव मुविग्रहाः । तन्मिपात्तन्मुखं दृष्टं नानासंस्थानसंस्थिताः ॥ द्वारं तस्य विभाति स्म रम्भास्तम्भविशोभितम् । मुखानां कौतुकानां च संकेत इव रूपवान् । खं भुवं चान्तरायश्च विमानमिदमीदृशम् । यावाभूम्योविंदूरस्थं पुत्रीदेवादियुग् व्यभात् ॥ आदर्शी रचना यत्र कुत्रचित्लीतिकारिणी । तदा श्रेणिरभूत्युंसां दृष्टान्तानां परस्परम् ॥१५॥ आदर्शी रचना यत्र कुत्रचित्सर्वतस्तदा । प्रतिबिम्बेन लोकानां वक्तीव किमु नगुणान् ॥१६॥ क्वाप्यत्र स्वस्तिकादीनि मौक्तिकग्रंथितानि हिमालम्नकभास्वन्ति मोहयन्ति स्म मानवान्। पण्डितानक्षराणीव लिखितानि खटीरसैः । मात्राबिन्दुमदीसानि प्रकटान्युज्ज्वलानि च ॥ -युग्मम् । इति दीक्षामण्डपवर्णनम् ॥ आकारयत्स आराममभिराममनिन्दितम् । पुत्रस्य वरयात्रायै नानाकृत्रिमवृक्षकः ॥ १९ ॥ ११-अत्र विच्छित्तिः रचना विशेष:-कुत्रचित् जन्तुरूपाणि, कचित् पनानि, कचित् पुष्पाणि, कचित् सूयचन्द्रतारकाकारा इत्यादिलक्षणः। १२-नानासंस्थानसंस्थिता:-नाना बहु प्रकारं संस्थानं रचना स्वस्वाकारस्वरूपा रचना तेन संस्थिताः समन्ततः स्थिता ये ते तथा । वन्मिषात् जरवाफादिमिषात् । तन्मुखं श्रीवासकुमारमुखम् ।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140