Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 36
________________ ३१ सर्गः] विजयदेवसूरि-माहात्म्यम् स तदा तं प्रति माह ममानुज्ञास्ति तेऽधुना। श्रीगुरुं त्वद्गुरु शीघ्र समाह्वय समानय ॥८॥ अध्यक्षं तं प्रतीत्याह स तदा प्रीतमानसः । भवनामाङ्कतं पत्रं लिखित्वा मुश्च भो प्रभो॥ सोऽपि तत्पुण्यवश्यात्मा लिखित्वा पत्रमादरात् । स्वसेवककरे दत्वा स्वसेवकमचालयत् ॥९०॥ ततः सोऽप्यचलच्छीघ्रं यदाजा करशासनः । उन्नताख्यं पुरं श्रीमदवाप त्वरितं चलन ॥९१॥ यत्रोपाश्रय आसीनो गुरुस्तं तत्र सोऽनमत् । दर्श दर्श तदा तस्य नेत्रे नातृप्यतां तदा ॥१२॥ अध्यक्षस्य फिरंगीणां पत्रमेतद्गहाण भोः । भवदाकारणायाहं तेन प्रेषित आगतः ॥९॥ इत्यादि कथयन प्रीतो वारंवारं गुरोः पुरः। स ददौ श्रीगुरोर्हस्ते पत्रं फिरंगिभूपतेः ॥१४॥ तत्पत्रं वाचयामास संघस्याग्रे तदा गुरुः । श्रीगुर्वाकारणं श्रुत्वा श्रीसंघेनाप्यतुष्यत ॥९॥ स तदा सहन्मापृच्छ्य चचालोत्तालमानसः । आलस्यं धर्मकार्येषु न सतां युज्यते यतः॥१६॥ प्रचलन पथि धर्मात्मा प्रापयन् धर्ममाईतम् । लोकानधर्मिणः मूरिः प्राप द्वीपपुरं क्रमात् ॥ तदा संभूय तत्रत्यः सङ्गो मेघयुतोऽभ्यगात् । नत्वा कृत्वोत्सवं मूरिं समानयदुपाश्रये ॥९८॥ दत्वेति प्राभृतं मेघस्तदाधिकृतमब्रवीत् । यो गुरुर्भवताहूतः स साम्पतमिहागतः ॥१९॥ स आहेति तदा प्रीतः स आयातु ममाग्रतः। सोऽप्यागत्यान्तिके तस्य धर्मलाभाशिषं ददौ ॥ धर्मलाभाशिषं श्रुत्वा स तुतोषतरां हृदि । स्थित्वैकत्र च तौ धर्मगोष्ठीमकुरुतां मिथः॥१०॥ धर्मगोष्ठीविधानेन स प्रसन्नोऽभवद् गुरौ। आह चेति यथेच्छ भो निवसन्त्वत्र साधवः॥१०२॥ ततस्तस्याग्रहात्तत्र श्रीसूरिः शरदौ द्वके । चतुरो द्वे चतुर्मास्यौ न्यवसद् धर्मद्धये ॥१०३॥ दुरात्मानं पुरा नित्यं धर्मात्मानं च नूतनम् । चिरन्तनमिवात्यन्तं वरात्मानं सदातनम् ॥ अध्यक्ष श्रीफिरंगीणां साधुसेवापरायणम् । विधाय करुणात्मानं प्रतस्थे स गुरुस्ततः ॥१०॥ श्रीमद्वीपपुरे नित्यं प्रत्यब्दमथ साधवः । निवसन्ति हि कुर्वन्तः कारयन्तश्च सदृषम्॥१०६॥ -इति फिरंगीणां अधिकारीप्रतिबोधः श्रीद्वीपे । प्रतिष्ठा जिनबिम्बानां प्रतिबोधोऽन्यतीथिनाम् । मालारोपादयोऽनेके धर्मा एकैकतोऽधिकाः ॥ देशे देशे महीयोभिरुत्सवैरतिसुन्दरैः । सर्वदा सर्वदानाढ्यै मे ग्रामे पुरे पुरे ॥१०॥ कृताः श्रीसूरिणा रम्याः कारिताश्च विशेषतः । तानहं नालिख सर्वान् ग्रन्थविस्तरभीतितः॥ -त्रिभिविशेषकम् ॥ शत्रुजयोज्जयन्तादि तीर्थयात्रा अनेकधा । अनेकसहसंयुक्तः सोऽकरादुत्सवोल्करैः ॥११॥ लिखितुं तान शक्नोमि नव्यनव्यान दिने दिने । वर्णनीयान् सदा देवैर्यतोऽहमलसो भृशम् ॥ ९८-अभ्यगात् अभिमुखमगच्छत् ।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140