________________
३१
सर्गः]
विजयदेवसूरि-माहात्म्यम् स तदा तं प्रति माह ममानुज्ञास्ति तेऽधुना। श्रीगुरुं त्वद्गुरु शीघ्र समाह्वय समानय ॥८॥ अध्यक्षं तं प्रतीत्याह स तदा प्रीतमानसः । भवनामाङ्कतं पत्रं लिखित्वा मुश्च भो प्रभो॥ सोऽपि तत्पुण्यवश्यात्मा लिखित्वा पत्रमादरात् । स्वसेवककरे दत्वा स्वसेवकमचालयत् ॥९०॥ ततः सोऽप्यचलच्छीघ्रं यदाजा करशासनः । उन्नताख्यं पुरं श्रीमदवाप त्वरितं चलन ॥९१॥ यत्रोपाश्रय आसीनो गुरुस्तं तत्र सोऽनमत् । दर्श दर्श तदा तस्य नेत्रे नातृप्यतां तदा ॥१२॥ अध्यक्षस्य फिरंगीणां पत्रमेतद्गहाण भोः । भवदाकारणायाहं तेन प्रेषित आगतः ॥९॥ इत्यादि कथयन प्रीतो वारंवारं गुरोः पुरः। स ददौ श्रीगुरोर्हस्ते पत्रं फिरंगिभूपतेः ॥१४॥ तत्पत्रं वाचयामास संघस्याग्रे तदा गुरुः । श्रीगुर्वाकारणं श्रुत्वा श्रीसंघेनाप्यतुष्यत ॥९॥ स तदा सहन्मापृच्छ्य चचालोत्तालमानसः । आलस्यं धर्मकार्येषु न सतां युज्यते यतः॥१६॥ प्रचलन पथि धर्मात्मा प्रापयन् धर्ममाईतम् । लोकानधर्मिणः मूरिः प्राप द्वीपपुरं क्रमात् ॥ तदा संभूय तत्रत्यः सङ्गो मेघयुतोऽभ्यगात् । नत्वा कृत्वोत्सवं मूरिं समानयदुपाश्रये ॥९८॥ दत्वेति प्राभृतं मेघस्तदाधिकृतमब्रवीत् । यो गुरुर्भवताहूतः स साम्पतमिहागतः ॥१९॥ स आहेति तदा प्रीतः स आयातु ममाग्रतः। सोऽप्यागत्यान्तिके तस्य धर्मलाभाशिषं ददौ ॥ धर्मलाभाशिषं श्रुत्वा स तुतोषतरां हृदि । स्थित्वैकत्र च तौ धर्मगोष्ठीमकुरुतां मिथः॥१०॥ धर्मगोष्ठीविधानेन स प्रसन्नोऽभवद् गुरौ। आह चेति यथेच्छ भो निवसन्त्वत्र साधवः॥१०२॥ ततस्तस्याग्रहात्तत्र श्रीसूरिः शरदौ द्वके । चतुरो द्वे चतुर्मास्यौ न्यवसद् धर्मद्धये ॥१०३॥ दुरात्मानं पुरा नित्यं धर्मात्मानं च नूतनम् । चिरन्तनमिवात्यन्तं वरात्मानं सदातनम् ॥ अध्यक्ष श्रीफिरंगीणां साधुसेवापरायणम् । विधाय करुणात्मानं प्रतस्थे स गुरुस्ततः ॥१०॥ श्रीमद्वीपपुरे नित्यं प्रत्यब्दमथ साधवः । निवसन्ति हि कुर्वन्तः कारयन्तश्च सदृषम्॥१०६॥
-इति फिरंगीणां अधिकारीप्रतिबोधः श्रीद्वीपे । प्रतिष्ठा जिनबिम्बानां प्रतिबोधोऽन्यतीथिनाम् । मालारोपादयोऽनेके धर्मा एकैकतोऽधिकाः ॥ देशे देशे महीयोभिरुत्सवैरतिसुन्दरैः । सर्वदा सर्वदानाढ्यै मे ग्रामे पुरे पुरे ॥१०॥ कृताः श्रीसूरिणा रम्याः कारिताश्च विशेषतः । तानहं नालिख सर्वान् ग्रन्थविस्तरभीतितः॥
-त्रिभिविशेषकम् ॥ शत्रुजयोज्जयन्तादि तीर्थयात्रा अनेकधा । अनेकसहसंयुक्तः सोऽकरादुत्सवोल्करैः ॥११॥ लिखितुं तान शक्नोमि नव्यनव्यान दिने दिने । वर्णनीयान् सदा देवैर्यतोऽहमलसो भृशम् ॥
९८-अभ्यगात् अभिमुखमगच्छत् ।