________________
३२
श्रीवल्लभोपाध्यायविरचितं इत्थं वासकुमारचाश्चरणादानप्रभावोद्भवं माहात्म्यं विजयादिसेनसुगुरोस्सत्यं जगद्विश्रुतम् । श्रीश्रीवल्लभपाठकः समपठत्तच्छ्रावकाः सन्ततं ।
श्रावंश्रावमनिन्दितं स्वहृदयेऽभ्यानन्दताऽनिन्दिताः ॥११२॥
इति श्रीवल्लभोपाध्याय विरचिते श्रीमत्तपागच्छाधिराज पातसाहि श्रीअकबर प्रदत्त जगद्गुरु बिरुदधारक म० श्रीहीरविजयसूरीश्वर० पात साहि श्रीजिहांगीर प्रदत्त महातपा बिरुदधारि भट्टारक श्रीविजय वसूरीश्वर गुणवर्णन प्रबन्धे श्रीमद्विजयदेवमाहात्म्य नाम्नि महाकाव्ये श्रीविजयदेवसूरि दक्षिाग्रहणप्रभावोद्भव श्रीविजयसेनसरि माहात्म्यवर्णनो नाम षष्ठः सर्गः ॥६॥
११२-भो श्रावकाः ! तत विजयादिसेनसुगुरोः श्रीविजयसेनसूरीश्वरस्य माहात्म्य सन्ततं सदा श्रावं श्रावं श्रुत्वा श्रुत्वा स्वहृदये अभ्यानन्दत । कथंभूतं इत्थं अनेन प्रकारेण श्रीमदकब्बर पातिसाहि परिषदवादाविधानपराजितानन्तप्रतिवादिवृन्दादिलक्षणेन पास मार चारुचरणादानप्रभावोद्भवम् । पुनः कथंभूतं ! सत्यं । पुनः कथंभूतं ? जगद्विश्रुतम् । तदिति किं १ यन्माहात्म्यं श्रीश्रीवल्लभपाठकः समपठयत अकथयत् ।