________________
वर्गः]
विजयदेवसूरि-माहात्म्यम्
सप्तमः सर्गः अथाससाद नैपुण्यं पुण्यं पुण्यवतां सताम् । सयौवनमिव श्रेयः स यौवनवयश्च सत् ॥१॥ सिद्धान्तानां समस्तानां तपोभेदविधानतः । साङ्गे प्रवचनेऽधीती सोऽभवत् क्रमपाठतः ॥२॥ दर्श दशै ततः सूरिः क्षणयुक्तः प्रतिक्षणम् । विद्याविजयनामायं गणिरित्यब्रवीद् ध्रुवः ॥३॥ षोडशस्य शतस्याऽस्मिन् पञ्चपञ्चाशवत्सरे । श्रीमत्यहम्मदावादोपपुरे श्रीशकन्दरे ॥४॥ भारतायाः प्रतिष्ठाया उत्सवे भूरिरैव्यये । श्राद्धेन लहुआकेन स्ववंशाम्भोजभास्वता ॥५॥ प्रशस्यचेताः श्रीमरिभूरिसूरिदिपोपमः । पण्डितपदमानन्दि तस्मै पुण्यात्मने ददौ ॥६॥ मार्गशीर्षे सिते पक्षे प्रकृष्टे पश्चमीदिने । देशदेशसमाहूतजनन्दविराजिते ॥७॥
-चतुर्भिः कलापकम् ॥ अयास्ति भरतक्षेत्रे स्तम्भतीर्थाभिधं पुरम् । यत्सुखं वर्तते तत्र न तत्स्वर्गे कदापि हि ॥८॥ यत्र श्रीपार्श्वनाथस्य महिमा महिमाऽवति । आवतीव हियं द्रष्टुं वापिलाच्छलात्किल ॥९॥ यत्र पार्थजिनं नित्यं नौतीवान्वहमम्बुधिः । वेलाच्छलेन सद्रत्नाक्षतान् मुश्चन् पुरान्तिके ॥ यत्र सन्ति सतां सन्ति गृहाणि व्यवहारिणाम् । विमानैः स्पर्धमानानि मनोरमतयोचकैः ॥
निवसन्ति च ये तत्र द्रव्याढया व्यवहारिणः।
दातृत्व सद्गुणाधिक्यात् सुरेभ्यो भागिनोऽधिकाः ॥१२॥ युग्मम् ।। व्रतधारी सदाचारी ब्रह्मचारीश्वरः परः । परन्तपतिरस्कारी श्रेयस्कारी सदा नृणाम् ॥१३॥
धर्मकारी गुणाधारी प्रीतिकारी नरोत्तरः ।
व्यवहारीश्वरस्तत्र श्रीमल्लो नाम वर्तते ॥१४॥ युग्मम् ॥ १-स विद्याविजयः अथ पुण्यवतां सतां मध्ये पुण्यं अत्यद्भुतत्वात् अनिन्दनीयत्वाच् च पवित्रं नैपुण्यं निपुणभावं आससाद प्राप्तवान् । कथंभूतं नैपुण्यं ? श्रेयः अतिशयेन प्रशस्यम् । पुनः कथंभूतं उत्प्रेक्ष्यते-सयौवनमिव सह यौवनेन वर्तते यत्तत् सयौवनं; तत् सयौवनं तदिव; यादर्श यौवनवयोयुतं शरीरं श्रेयः स्यात् । तथा नैपुण्यमपि अतिविशिष्टत्वात् अध्ययनाध्यापनादिषु सर्वकर्मसु जागरूकस्फूर्तिमत्त्वाच यौवनयुततुल्यमित्यर्थः । यौवने हि सर्व अप्रशस्यमपि प्रशस्यतरं भवति तहि प्रशस्यस्य किं वक्तव्यं, नैपुण्यस्यात्याधिक्यात् अत्यद्भुतत्वात् च । यौवनयुतेन औपम्यं केवलं नैपुण्यमेव प्राप नान्यत्किमपीत्याह-च पुनः यौवनवयः आससाद । कथंभूर्त यौवनवयः सत् प्रधानम् ।
९-प्राक् आवतीति क्रियापदं आज पूर्वकं । सामस्त्येन पालनार्थ महिशब्दोऽत्र इकारान्त गौणाविकः । द्वितीयं आवतीति क्रियापदं गत्यर्थस्यापि अवधातोराङ पूर्वकत्वात् आगमनार्थमवसेयम् ।