________________
श्रीषल्लभोपाध्यायविरचित
[सप्तमा निश्चला बहला लक्ष्मीरुल्लासं मल्लते कुले । नाम जल्पन्ति जल्पाकाः श्रीमल्ल इति सार्थकम् ॥ व्यस्तर वा भाति सोमः सोमसमाज्ञया। सोमवत् स लोकानामभिप्रेतः प्रियंवदः॥
सोमो नाम जगज्ज्योतिः समरात्रिदिवद्युतिः।
अन्यो रात्रिद्युतिः सोमः कियांस्तस्याग्रतोऽवति ॥१७॥ अर्थतस्यान्यदा चाग्रे भक्त्यैकाग्रश्रुतिश्रुतेः। लोकोक्ता लोकवार्तेति कैश्चिदौच्यत सज्जनैः॥१८॥ विजयसेनसूरीन्द्रस्स्वशिष्यमभिषेक्ष्यति । विद्याविजयनामानं विद्याविजयमाननात् ॥१९॥ श्रुत्वा स ईदृशं वाक्यं विवेकी धर्मकर्मसु । वाञ्छन् नवनवं धर्म हृद्यविन्दत्तदेदृशम् ॥२०॥ एतत्पट्टाभिषेकस्य महोत्सवमहोत्सवम् । करवाणि तदाऽभाणि तेनेति च तदा जनाः ॥२१॥
लक्ष्मीरनर्गला लीलां कुरुते मम वेश्मनि ।
युज्यतेऽस्याः कृतार्थत्वमस्मिन्नुत्सवकर्मणि ॥२१॥-पाठान्तरम् -इति व्यज्ञपयत्सई विनयात्स महर्टिकम् । करवाण्याज्ञयावोऽहमेतत्पट्टमहोत्सवम् ॥२२॥
१५-मलि मल्लिधारणे भ्वादिरात्मनेपदी । जल्पाकाः पण्डिताः।
१६-तस्य श्रीमल्लस्य भ्रातृव्यः सामः सोमनामा सोमसमाज्ञया चन्द्रोज्ज्वलयशसाबाभाति आतशयेन शोभते । यशः कीर्तिसमाज्ञा चेत्यमरः । सोमवत् चन्द्रवत् सर्वलोकानामभिप्रेतः ।
१८-भक्त्या एकाप्रयोः श्रुत्योः कर्णयोः श्रुतिः श्रवणं यस्य तस्य भक्त्येकाप्रश्रुतिश्रुतेः । ययन समासान्तमेकपदं तर्हि इको यणीति यणि एकादशस्वरमध्य एव पाठः। अथ च. भक्त्येति तृतीयान्तं पदं पृथक् तदा वृद्धिरेचीति वृद्धौ द्वादशस्वरमध्य एव पाठः । इतीति किं तदाह।
१९-विद्याविजयाभ्यां माननं विद्याविजयमाननं तस्माद् हेतोः । अथवा विद्या च विजयश्च माननं चेति त्रिभिः समाहारे एकवद्भावे च विद्याविजयमाननं तस्माद् हेतोः । अथवा विद्याविजयमाननमिति पाठः । तदायमर्थः-कथंभूतं विद्याविजयनामानं विद्याविजयाभ्यां कारणाभ्यां माननं सर्वलोके यस्य स तथा तं । अथवा विद्याभिश्चतुर्दशसंख्याभिः शिक्षा कल्पो व्याकरणमित्यादिकाभियों विजयस्तेन कारणेन माननं यस्य स तथा तम् ।
२०-विद विचारणे रुधादिः परस्मैपदी।
२१-तदा तस्मिन् काले श्रीविजयसेनसूरिः विद्याविजयनामानं स्वशिष्यमभिषेक्ष्यति इति श्रवणकाले । तेन श्रीमल्लेन जनाः अर्थात् श्रावकलोका इति अभाणि इतीति किं एतत्पट्टाभिषेकस्य विद्याविजयपट्टाभिषेकस्य महोत्सवमहोत्सवं करवाणि महान् उत्सवो यस्मिन् यस्माद वा दर्शनाल्लोकानां स महोत्सवः महांश्वासावुत्सवश्व महोत्सवः महोत्सवश्वासो महोत्सवश्च महोत्सवमहोत्सवस्तम् ।