________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् श्रीसङ्घोऽपि तदाऽवादीदाश्रवो भवतोऽस्त्ययम् । मा प्रमाद्य हृदानन्ध सद्यः श्रीमल्ल तं कुरु॥ ततः श्रीमल्ल आनन्दात्तदानीं मोदमेदुरः। श्रीसडन्स्य समक्ष साक् इति पत्रे व्यलेखया ॥२४॥ स्वस्ति श्रीदेवमादीव्य सर्वाभीष्टार्थदायकम् । श्रीमत्यहम्मदावादपुरे सद्भर्भरीवरे ॥२५॥ विजयसेनसूरिः स जिनशासनभूषणम् । राजते यस्तपः कुर्वन् हन्ति पातकदूषणम् ॥२६॥ त्वरितं दुरितं हन्ति नामोच्चारोऽपि ते कृतः। किं स्तुमस्त्वत्पदाम्भोजवन्दनापूजने गुरो ॥ तत्र स्युः सम्पदः सद्यो निरवद्या निरापदः । यत्र त्वचरणन्यासः किं स्तुमस्त्वत्पदस्थितिम् ।। एवं सूरीश्वरं स्तुत्वा वन्दते च वदत्यदः । स्तम्भतीर्थ स्थितः श्राद्धः श्रीमल्लस्सडसंयुतः ॥२९॥ प्रमोदे चाभिनन्दामि भवत्पादप्रसादतः । इच्छामि च भवत्कायकुशलं कुशलपदम् ॥३०॥ पूज्यराज पदाम्भोजमकरन्दस्त्वदीयकः । मदीयनेत्ररोलम्ब पुष्णात्वत्रागमोद्भवात् ॥३१॥ भूयांसः श्रावकाः सन्ति पदोत्सवविधायकाः। परमस्योत्सवं कर्तुं चिकीर्षामि गुरुत्तम ॥३२॥ श्रीपूज्यात इहागच्छ समापृच्छ्य सर्वतः । पिपमि परमं सर्वं मामकं हि मनोरथम् ॥३३॥ पत्रमीशमालिख्य श्रीगुरूचितमादरात् । अलिखत्स पुनः पत्रं श्रीसडोचितमाहतम् ॥३४॥ तद्यथा-स्वस्ति श्रीजिनमानम्य, रम्यधर्मपरायणम् । श्रीमदहम्मदावादपुरवासिमहाजनम् ॥ :: श्रीमल्लः स्तम्भतीर्थस्थो ज्योक करोति करोति च । विज्ञप्ति विनयेनेति विनयी विनयीश्वरम् ॥
विजयसेनसूरीन्द्रा विद्याविजयनामकम् । युवराज्यपदे स्वीये धर्ये न्यसति सम्पति ॥३७॥ कर्तुं तस्योत्सवं श्रीमत्सडादेशेन भक्तितः । वाञ्छामीति ततः सडगे मुञ्चतादिह सद्गुरुम्॥३८॥ इह श्रीस्थम्भतीर्थबिभर्तु परमं प्रेम श्रीसंघो मयि सेवके । पिपत्रे च जनाभीष्टमिमं मन मनोरथम् ॥३९॥ इति पत्रं समालिख्य श्रीसडोचितमद्भुतम् । आह्वयत्सेवकं स्वीयं श्रीमल्लः श्रावकस्ततः॥४०॥
२३-अयं श्रीसको भवतस्तव आश्रवः कथनकारी अस्ति । आश्रषो वचनस्थित इति हैमः।
२४-भौरीशब्द औणादिकः श्रीपर्यायः। सत्या विद्यमानया प्रशस्तया वा न्यायोपार्जितत्वात् । भर्भर्या श्रिया वरंयत्तत् सद्भर्भरीवरं तस्मिन् ।
३९-ज्योक इति कालभूयस्त्वप्रश्नयोः। ज्योग जीवामः; ज्योक् कृत्य नृपति गतः। विनयी विनयवान् । कथंभूतं महाजनं ? विनयीश्वरं विनयवतां नायकं, यद्वा विनयी विनयवान् स घासावीश्वरश्व समृद्ध इति कर्मधारये विनयीश्वरस्तं । अनेन श्रीमदहम्मदावादवासिमहाजनस्य विनयोपेतत्वं महर्षिकत्वं च दार्शतम् । इतीति कि ? तदाह.
४०-श्रीसद्ध इमं पट्टाभिषेकोत्सवकरणलक्षणं मम मनोरथं पिपतु पूरयतु । कथंभूतं इमं मनोरथं जनाभीष्टं जनस्य अर्थात् श्रीमदहम्मदावादाद्यपरनगरवासिमहाजनस्याभीष्टो जनाभीष्टस्तं । अनेन विशेषणेन श्रीमदहम्मदावादपत्तनाद्यनेकनगरनिवासिनां महर्द्विकानां श्रावकाणां पदमहो