________________
श्रीवल्लभोपाध्यायविरचितं
[सप्तमः पत्रं गुरोश्च सङ्घस्य सेवकस्य करे ददौ । अवादीच तदा मोदात् श्रीमल्ल इति वाचिकम् ॥४१॥ बन्दनां श्रीगुरोर्ब्रया देयाः पत्रं करे ततः । ज्योक्कारं सर्वसंघस्य पृच्छेश्च कुशलं तथा ॥४२॥ आयत्याव भो स्वामिन श्रीमल्लः सन्संयुतः । त्वदीयागमने तस्य मन आनन्दमाप्स्यति । इत्युदित्वा गुरुं नत्वा भक्त्या परमया तथा । श्रीसद्यस्य करे पत्रं दध्याज्ज्याक्कृत्य कृत्यवित् ॥ इति विज्ञपयत्येष श्रीमल्लः सङ्कन्सेवकः । श्रीमदहम्मदावादसई सहामिव श्रियाम् ॥४५॥ विजयसेनसूरीन्द्रं मुश्च श्रीस्तम्भतीर्थके । स्वशिष्यमभिषेक्तारं विद्याविजयनामकम् ॥४६॥ इत्युक्त्वाचालयत्सद्यः स स्वसेवकमाशुगम् । सोऽप्यचालीत्तदोत्तालः शीघ्रकृद् यत्पतिप्रियः ।। सम्मापाहम्मदाबादपुरं स त्वरितं चलन् । श्रीपूज्यराजपादाब्जमवन्दत च भक्तितः॥४८॥ ददौ पत्रं तदा हस्ते सशस्ते श्रीगुरोर्मुदा । स स्वयं वाचयामास सुमसनमना हि तत् ॥४९॥ प्रददौ सङ्कपत्रं च सडपाणौ सदक्षिणः । सड्डेन्नापि तदाऽवाचि श्रीमता तत् शुभात्मना ॥५॥ संभूय श्रीगुरुः सङ्घ उभौ विमृशतुस्तदा । किं कर्तव्यमिति स्पष्टं बूतेति मिथ ऊचतुः ॥५१॥ पूज्यं व्यज्ञपयत् सङ्घः स्तम्भतीर्थ व्रज प्रभो । वाञ्छितं कुरु तस्याशु यल्लोकः स्वेष्टसिद्धितुद् ॥ शुभ मुहूर्तमालोक्य श्रीसङ्कानुज्ञया तदा । विजयसेनसूरीन्द्रः स्तम्भतीर्थमचीचलत् ॥५३॥ स्तंमतीर्थपुरं प्राप्नोत् क्रमेण विहरन् गुरुः । श्रीमल्लं सेवकोऽवादीदिति गत्वाऽग्रतस्ततः॥५४॥ त्सवाविधाने अतिरागो दर्शितः । मनोरथपूरणेन च मयि सेवके परमं प्रेम बिभर्तु धरतु ।
४१-सन्देशवाक् तु वाचिक इति हैमः । सन्देसओ इति भाषा । इतीति किं तदाह
४२-अत्र ध्याः देया इति च क्रियापदद्वयं पूर्वार्धस्थितं उत्तरार्धेऽपि योज्यं । पृच्छेन्ड कुशलं तथा-इति पदं गुरोः सर्वसङ्घस्य इत्युभयत्रापि योज्यम् ।
४४-भो वदेः भो इति सम्बोधनपदं तेन भो सेवक वदेः कथयेः । किं वदे इत्याह ।
४५-श्रीभिर्मदो हर्षों यस्य स श्रीमदः । यद्वा श्रीणां मदो हर्षो अविनाशित्वात् यस्मिन् सः श्रीमदः । अहम्मदावादस्य सङ्घः अहम्मदावादसङ्घः अथवा अहम्मदावादवासीः सक्छः अहम्मदावादसा:मध्यपदलोपी समासः । श्रीमदश्चासावहम्मदावादसवश्व इति द्वाभ्यां कर्मधारये श्रीमद हम्मदाबादसवस्तं । कथं भूतं । उत्प्रेक्ष्यते श्रियां सम्पदा सङ्कमिव समूह मिव ।
४७-सः श्रीमल्लः । पतिप्रियः स्वमिप्रियः ।
५२-तस्य श्रीमल्लस्य स्वेष्ट सिद्धया स्ववाञ्छितनिष्पत्त्या तुष्यतीति स्वेष्टसिद्धितुद् । यदि पूज्यः स्तम्भतीर्थे न यास्यति ताई श्रीमल्लः श्रावको रोषं करिष्यति । पदमहोत्सवावधान विना च तद्वान्छितं न सेत्स्यतीति अतोऽवश्यं श्रीपूज्येन स्तम्भतीर्थे गन्तव्यं पदमहोत्सवावधानलक्षणा तन्मनोरथसिद्धिश्च कर्तव्येति चतुर्थपदाभिप्रायः ।