________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् स्तम्भतीर्थपुराभ्यणे रमाया गुरुर्गुरुः । भवदाहृत आतसम्पन्निचयनिश्चयः ॥५५॥ पश्यंस्तदागमाध्वानं प्रतिक्षणं क्षणान्वितः । श्रुत्वा तदागमं चित्ते सोऽनुष्यत् सेवकोदितम् ॥ श्रीमल्लः श्रावकोऽभ्यायान्महाजनसमन्वितः । स्तम्भतीर्यान्तरा नेतुं वन्दितुं नातहर्षतः॥१७॥
रेरान्तकमभ्येत्य प्राणमत्तत्पदाम्बुजम् । सत्रि:प्रदिक्षिणीकृत्य रूप्यनीराजनां व्यधात् ॥ वाघमानधनातोथैर्गीयमानसुगानकैः । नृत्यन्नर्तकसंघातैः पश्यच्छस्यजनवजैः ॥१९॥ स्तम्भतीर्थपुरस्यान्तरुपाश्रयमवेशनम् । उत्सवैः श्रीगुरुः पाप ततः श्रीमल्लनिर्मितैः ॥६०॥ इति धर्माशिष पूज्यः सड्ड-सन्तोषपोषिकाम् । सुधासदृशया वाण्या सड्डाय समुपादिशत् ॥ धर्मों वो मङ्गलं कुर्यादानशीलाधनेकधा । तनौ धने तनूजादिकुटुम्बे भविकाः सदा ॥६२।। धर्माशिषमिमां श्रुत्वा श्रावकाः प्रीतचेतसः । रूपकैलालकेश्व चक्रलम्भनिकां मिथः ॥६॥ अथ मण्डपमुत्कृष्टमिष्टं मण्डयति स्म सः। नेत्राणां प्रथमो न्हणामुत्सवो दर्शनोचितः ॥६॥ तत्र वस्त्रत्तिभित्तिदृढाऽविज्ञातसन्धिका । विचित्रश्चित्रिता चित्रैर्नताकृतपूर्विणी ॥६५॥ कुत्रचित्तत्र चित्राणि द्वन्द्वानि विविधानि हि । नानुस्थानमवाप्स्यामः प्रागेवेति स्थितानि किम्॥ कुत्रचित्तत्र पानि नराः क्रीडन्त्वितीच्छया । बभुर्वा कापि पुष्पाणि देवानर्चत्वितीच्छया ॥
५५-आहूतः आकारितः । सम्पदा निचयः समूहः स एव तस्य वा निश्चयो येन सः। आहूतसम्पनिचयनिश्चयः । अथवा आहूतानां धातूनामनेकार्थत्वात् सम्पन्नानां सम्पदां निचयस्य समूहस्य निश्चय इव आहूतसम्पनिचयनिश्चयः । गुरुविशेषणमेतत् ।
५८-रूप्याणां रूपकानां रूपइया इति लोकभाषाप्रसिद्धानां नीराजना आरती निवच्छणां इति भाषाप्रसिद्धा रूप्यनीराजना ताम् ।
६०-ततः श्रीगुरुः स्तम्भतीर्थपुरस्यान्तर्मध्ये उपाश्रयप्रवेशनं प्रापकैरुत्सवैः किं० श्रीमल्लनिर्मितः श्रीमल्लनाम्ना श्रावकेण कृतैः । शेषाणि चत्वारि विशेषणानि स्पष्टानि । गीत गानं गेयं गीतिरित्यभिधानचिन्तामाणः ।
६५-तत्र मण्डपे पूर्व कृता केनेति कृतपूर्विणी । सुपसुपेति समासे सपूर्वाञ्चेति निः ऋन्नेभ्यो जीप इति जी ।
६६-द्वन्द्वं स्त्री पुरुषो । अनुपश्चात् ।
६७-तत्र मण्डपवृत्तौ कुत्रचित् पद्मानि कमलानि बभुः शुशुभिरे । कया नराः क्रीडन्तु इती. च्छया इति वान्छया बभुर्वा शुशुभिरे इव । लोका अपि कस्मिंत्रिदुस्सवे क्रीडां कर्तुकामाः परमवेषादिना भान्ति । अस्मान लात्वा च अन्येऽपि केचन क्रीडन्ति इति च वान्छन्ति । तथा पद्मान्यपि सत्यद्भुताकारैरशोभन्त। श्रीविद्याविजयं द्रष्टुं समागता नराः अस्मान् लात्वा क्रीडन्तु इति ववाञ्छुश्च । च पुनः । तत्र मण्डपवृत्तौ क्वापि पुष्पाणि कुन्दादीनि बभुः । कया ? नरा इति पूर्वार्धस्थितं