Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 42
________________ सर्गः] विजयदेवसूरि-माहात्म्यम् स्तम्भतीर्थपुराभ्यणे रमाया गुरुर्गुरुः । भवदाहृत आतसम्पन्निचयनिश्चयः ॥५५॥ पश्यंस्तदागमाध्वानं प्रतिक्षणं क्षणान्वितः । श्रुत्वा तदागमं चित्ते सोऽनुष्यत् सेवकोदितम् ॥ श्रीमल्लः श्रावकोऽभ्यायान्महाजनसमन्वितः । स्तम्भतीर्यान्तरा नेतुं वन्दितुं नातहर्षतः॥१७॥ रेरान्तकमभ्येत्य प्राणमत्तत्पदाम्बुजम् । सत्रि:प्रदिक्षिणीकृत्य रूप्यनीराजनां व्यधात् ॥ वाघमानधनातोथैर्गीयमानसुगानकैः । नृत्यन्नर्तकसंघातैः पश्यच्छस्यजनवजैः ॥१९॥ स्तम्भतीर्थपुरस्यान्तरुपाश्रयमवेशनम् । उत्सवैः श्रीगुरुः पाप ततः श्रीमल्लनिर्मितैः ॥६०॥ इति धर्माशिष पूज्यः सड्ड-सन्तोषपोषिकाम् । सुधासदृशया वाण्या सड्डाय समुपादिशत् ॥ धर्मों वो मङ्गलं कुर्यादानशीलाधनेकधा । तनौ धने तनूजादिकुटुम्बे भविकाः सदा ॥६२।। धर्माशिषमिमां श्रुत्वा श्रावकाः प्रीतचेतसः । रूपकैलालकेश्व चक्रलम्भनिकां मिथः ॥६॥ अथ मण्डपमुत्कृष्टमिष्टं मण्डयति स्म सः। नेत्राणां प्रथमो न्हणामुत्सवो दर्शनोचितः ॥६॥ तत्र वस्त्रत्तिभित्तिदृढाऽविज्ञातसन्धिका । विचित्रश्चित्रिता चित्रैर्नताकृतपूर्विणी ॥६५॥ कुत्रचित्तत्र चित्राणि द्वन्द्वानि विविधानि हि । नानुस्थानमवाप्स्यामः प्रागेवेति स्थितानि किम्॥ कुत्रचित्तत्र पानि नराः क्रीडन्त्वितीच्छया । बभुर्वा कापि पुष्पाणि देवानर्चत्वितीच्छया ॥ ५५-आहूतः आकारितः । सम्पदा निचयः समूहः स एव तस्य वा निश्चयो येन सः। आहूतसम्पनिचयनिश्चयः । अथवा आहूतानां धातूनामनेकार्थत्वात् सम्पन्नानां सम्पदां निचयस्य समूहस्य निश्चय इव आहूतसम्पनिचयनिश्चयः । गुरुविशेषणमेतत् । ५८-रूप्याणां रूपकानां रूपइया इति लोकभाषाप्रसिद्धानां नीराजना आरती निवच्छणां इति भाषाप्रसिद्धा रूप्यनीराजना ताम् । ६०-ततः श्रीगुरुः स्तम्भतीर्थपुरस्यान्तर्मध्ये उपाश्रयप्रवेशनं प्रापकैरुत्सवैः किं० श्रीमल्लनिर्मितः श्रीमल्लनाम्ना श्रावकेण कृतैः । शेषाणि चत्वारि विशेषणानि स्पष्टानि । गीत गानं गेयं गीतिरित्यभिधानचिन्तामाणः । ६५-तत्र मण्डपे पूर्व कृता केनेति कृतपूर्विणी । सुपसुपेति समासे सपूर्वाञ्चेति निः ऋन्नेभ्यो जीप इति जी । ६६-द्वन्द्वं स्त्री पुरुषो । अनुपश्चात् । ६७-तत्र मण्डपवृत्तौ कुत्रचित् पद्मानि कमलानि बभुः शुशुभिरे । कया नराः क्रीडन्तु इती. च्छया इति वान्छया बभुर्वा शुशुभिरे इव । लोका अपि कस्मिंत्रिदुस्सवे क्रीडां कर्तुकामाः परमवेषादिना भान्ति । अस्मान लात्वा च अन्येऽपि केचन क्रीडन्ति इति च वान्छन्ति । तथा पद्मान्यपि सत्यद्भुताकारैरशोभन्त। श्रीविद्याविजयं द्रष्टुं समागता नराः अस्मान् लात्वा क्रीडन्तु इति ववाञ्छुश्च । च पुनः । तत्र मण्डपवृत्तौ क्वापि पुष्पाणि कुन्दादीनि बभुः । कया ? नरा इति पूर्वार्धस्थितं

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140