Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 41
________________ श्रीवल्लभोपाध्यायविरचितं [सप्तमः पत्रं गुरोश्च सङ्घस्य सेवकस्य करे ददौ । अवादीच तदा मोदात् श्रीमल्ल इति वाचिकम् ॥४१॥ बन्दनां श्रीगुरोर्ब्रया देयाः पत्रं करे ततः । ज्योक्कारं सर्वसंघस्य पृच्छेश्च कुशलं तथा ॥४२॥ आयत्याव भो स्वामिन श्रीमल्लः सन्संयुतः । त्वदीयागमने तस्य मन आनन्दमाप्स्यति । इत्युदित्वा गुरुं नत्वा भक्त्या परमया तथा । श्रीसद्यस्य करे पत्रं दध्याज्ज्याक्कृत्य कृत्यवित् ॥ इति विज्ञपयत्येष श्रीमल्लः सङ्कन्सेवकः । श्रीमदहम्मदावादसई सहामिव श्रियाम् ॥४५॥ विजयसेनसूरीन्द्रं मुश्च श्रीस्तम्भतीर्थके । स्वशिष्यमभिषेक्तारं विद्याविजयनामकम् ॥४६॥ इत्युक्त्वाचालयत्सद्यः स स्वसेवकमाशुगम् । सोऽप्यचालीत्तदोत्तालः शीघ्रकृद् यत्पतिप्रियः ।। सम्मापाहम्मदाबादपुरं स त्वरितं चलन् । श्रीपूज्यराजपादाब्जमवन्दत च भक्तितः॥४८॥ ददौ पत्रं तदा हस्ते सशस्ते श्रीगुरोर्मुदा । स स्वयं वाचयामास सुमसनमना हि तत् ॥४९॥ प्रददौ सङ्कपत्रं च सडपाणौ सदक्षिणः । सड्डेन्नापि तदाऽवाचि श्रीमता तत् शुभात्मना ॥५॥ संभूय श्रीगुरुः सङ्घ उभौ विमृशतुस्तदा । किं कर्तव्यमिति स्पष्टं बूतेति मिथ ऊचतुः ॥५१॥ पूज्यं व्यज्ञपयत् सङ्घः स्तम्भतीर्थ व्रज प्रभो । वाञ्छितं कुरु तस्याशु यल्लोकः स्वेष्टसिद्धितुद् ॥ शुभ मुहूर्तमालोक्य श्रीसङ्कानुज्ञया तदा । विजयसेनसूरीन्द्रः स्तम्भतीर्थमचीचलत् ॥५३॥ स्तंमतीर्थपुरं प्राप्नोत् क्रमेण विहरन् गुरुः । श्रीमल्लं सेवकोऽवादीदिति गत्वाऽग्रतस्ततः॥५४॥ त्सवाविधाने अतिरागो दर्शितः । मनोरथपूरणेन च मयि सेवके परमं प्रेम बिभर्तु धरतु । ४१-सन्देशवाक् तु वाचिक इति हैमः । सन्देसओ इति भाषा । इतीति किं तदाह ४२-अत्र ध्याः देया इति च क्रियापदद्वयं पूर्वार्धस्थितं उत्तरार्धेऽपि योज्यं । पृच्छेन्ड कुशलं तथा-इति पदं गुरोः सर्वसङ्घस्य इत्युभयत्रापि योज्यम् । ४४-भो वदेः भो इति सम्बोधनपदं तेन भो सेवक वदेः कथयेः । किं वदे इत्याह । ४५-श्रीभिर्मदो हर्षों यस्य स श्रीमदः । यद्वा श्रीणां मदो हर्षो अविनाशित्वात् यस्मिन् सः श्रीमदः । अहम्मदावादस्य सङ्घः अहम्मदावादसङ्घः अथवा अहम्मदावादवासीः सक्छः अहम्मदावादसा:मध्यपदलोपी समासः । श्रीमदश्चासावहम्मदावादसवश्व इति द्वाभ्यां कर्मधारये श्रीमद हम्मदाबादसवस्तं । कथं भूतं । उत्प्रेक्ष्यते श्रियां सम्पदा सङ्कमिव समूह मिव । ४७-सः श्रीमल्लः । पतिप्रियः स्वमिप्रियः । ५२-तस्य श्रीमल्लस्य स्वेष्ट सिद्धया स्ववाञ्छितनिष्पत्त्या तुष्यतीति स्वेष्टसिद्धितुद् । यदि पूज्यः स्तम्भतीर्थे न यास्यति ताई श्रीमल्लः श्रावको रोषं करिष्यति । पदमहोत्सवावधान विना च तद्वान्छितं न सेत्स्यतीति अतोऽवश्यं श्रीपूज्येन स्तम्भतीर्थे गन्तव्यं पदमहोत्सवावधानलक्षणा तन्मनोरथसिद्धिश्च कर्तव्येति चतुर्थपदाभिप्रायः ।

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140