Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 38
________________ वर्गः] विजयदेवसूरि-माहात्म्यम् सप्तमः सर्गः अथाससाद नैपुण्यं पुण्यं पुण्यवतां सताम् । सयौवनमिव श्रेयः स यौवनवयश्च सत् ॥१॥ सिद्धान्तानां समस्तानां तपोभेदविधानतः । साङ्गे प्रवचनेऽधीती सोऽभवत् क्रमपाठतः ॥२॥ दर्श दशै ततः सूरिः क्षणयुक्तः प्रतिक्षणम् । विद्याविजयनामायं गणिरित्यब्रवीद् ध्रुवः ॥३॥ षोडशस्य शतस्याऽस्मिन् पञ्चपञ्चाशवत्सरे । श्रीमत्यहम्मदावादोपपुरे श्रीशकन्दरे ॥४॥ भारतायाः प्रतिष्ठाया उत्सवे भूरिरैव्यये । श्राद्धेन लहुआकेन स्ववंशाम्भोजभास्वता ॥५॥ प्रशस्यचेताः श्रीमरिभूरिसूरिदिपोपमः । पण्डितपदमानन्दि तस्मै पुण्यात्मने ददौ ॥६॥ मार्गशीर्षे सिते पक्षे प्रकृष्टे पश्चमीदिने । देशदेशसमाहूतजनन्दविराजिते ॥७॥ -चतुर्भिः कलापकम् ॥ अयास्ति भरतक्षेत्रे स्तम्भतीर्थाभिधं पुरम् । यत्सुखं वर्तते तत्र न तत्स्वर्गे कदापि हि ॥८॥ यत्र श्रीपार्श्वनाथस्य महिमा महिमाऽवति । आवतीव हियं द्रष्टुं वापिलाच्छलात्किल ॥९॥ यत्र पार्थजिनं नित्यं नौतीवान्वहमम्बुधिः । वेलाच्छलेन सद्रत्नाक्षतान् मुश्चन् पुरान्तिके ॥ यत्र सन्ति सतां सन्ति गृहाणि व्यवहारिणाम् । विमानैः स्पर्धमानानि मनोरमतयोचकैः ॥ निवसन्ति च ये तत्र द्रव्याढया व्यवहारिणः। दातृत्व सद्गुणाधिक्यात् सुरेभ्यो भागिनोऽधिकाः ॥१२॥ युग्मम् ।। व्रतधारी सदाचारी ब्रह्मचारीश्वरः परः । परन्तपतिरस्कारी श्रेयस्कारी सदा नृणाम् ॥१३॥ धर्मकारी गुणाधारी प्रीतिकारी नरोत्तरः । व्यवहारीश्वरस्तत्र श्रीमल्लो नाम वर्तते ॥१४॥ युग्मम् ॥ १-स विद्याविजयः अथ पुण्यवतां सतां मध्ये पुण्यं अत्यद्भुतत्वात् अनिन्दनीयत्वाच् च पवित्रं नैपुण्यं निपुणभावं आससाद प्राप्तवान् । कथंभूतं नैपुण्यं ? श्रेयः अतिशयेन प्रशस्यम् । पुनः कथंभूतं उत्प्रेक्ष्यते-सयौवनमिव सह यौवनेन वर्तते यत्तत् सयौवनं; तत् सयौवनं तदिव; यादर्श यौवनवयोयुतं शरीरं श्रेयः स्यात् । तथा नैपुण्यमपि अतिविशिष्टत्वात् अध्ययनाध्यापनादिषु सर्वकर्मसु जागरूकस्फूर्तिमत्त्वाच यौवनयुततुल्यमित्यर्थः । यौवने हि सर्व अप्रशस्यमपि प्रशस्यतरं भवति तहि प्रशस्यस्य किं वक्तव्यं, नैपुण्यस्यात्याधिक्यात् अत्यद्भुतत्वात् च । यौवनयुतेन औपम्यं केवलं नैपुण्यमेव प्राप नान्यत्किमपीत्याह-च पुनः यौवनवयः आससाद । कथंभूर्त यौवनवयः सत् प्रधानम् । ९-प्राक् आवतीति क्रियापदं आज पूर्वकं । सामस्त्येन पालनार्थ महिशब्दोऽत्र इकारान्त गौणाविकः । द्वितीयं आवतीति क्रियापदं गत्यर्थस्यापि अवधातोराङ पूर्वकत्वात् आगमनार्थमवसेयम् ।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140