Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 31
________________ [षष्ठः श्रीवल्लभोपाध्यायविरचितं षष्ठः सर्गः अथो विजयसेनाख्यो वर्याचार्योऽभ्यमन्यत । श्रीमान् वासकुमारोऽपि मिथोऽयसुकृतार्थताम् ॥ अधीयानं गुरोः पार्वेऽकुर्वाणं पर्युपासनाम् । आश्रवोऽयं विधेयोऽयमित्यवादीत्तदा गुरुः॥ गुरुहस्तप्रभावेन दीप्यते वर्धते च सः । गुरुः शिष्यप्रभावेनैवतैवं चाप्य दीप्यते ॥३॥ तद्यथा-कियत्यपि गते काले, लेभे मूरिपदं ततः।। निःसपत्नं स साम्राज्यमिवोग्राऽग्राशयान्वितम् ॥ ४॥ विजयसेनसूरीन्द्र इति नामाऽभवद्भुवि । विख्यातं श्रीगुरुख्यातं सन्मुखापारमेश्वरात् ॥५॥ ततः कुर्वन् महीपीठे धर्मराज्यं विशेषतः । अधिकाधिकतेजास्स भवन् पावर्तताचिरात् ॥ श्रीमतोऽकब्बराख्यस्य पातिसाहेः सुसंसदि । षड्दर्शनानुसम्बन्धि वार्ता प्रावर्ततान्यदा ॥ तदा च कोविदः कश्चित् पातिसाहिं न्यवेदयत् । पञ्चदर्शनविद्वांसस्तिष्ठन्ति भवतोऽग्रतः ॥ हीरविजयसूरीन्द्रशिष्यः षष्ठोऽस्ति वादिपः। विजयसेनसूरीन्द्रः स त्वत्तोऽन्यत्र तिष्ठति ॥९॥ मनुते स च नो गङ्गां रामं च परमेश्वरम् । इत्यादिभिर्वचोभिस्स तं चेति प्रत्यबोधयत्॥१०॥ पातिसाहिस्ततोऽत्यन्तं तमाहातुं समुत्सुकः । अलेखयत्तदाहूत्यै स्फुरन्मानं घनादरम् ॥११॥ स्वसेवककरे दत्वा स्फुरन्मानं तदा मुदा । त्वमानयमाहूयेत्यऽवदत् सेवकं हि सः ॥१२॥ स तदा शिरसि न्यस्य स्फुरन्मानं तदाज्ञया । प्रस्थाय राधनपुरे सूरेः पावं समाययौ ॥१३॥ -प्रस्थाय राजधन्याख्यपुरे पार्चे गुरोर्ययो-इति पाठान्तरम् ॥ श्रीसूरीश्वरमानम्य तदालोकनतस्तदा । रोमाश्चिततनुः मादात् स्फुरन्मानं स तत्करे ॥१४॥ श्रीसडन्स्य समक्षं स स्फुरन्मानमवाचयत् । वाचं वाचं गुरोश्चित्तं सडन्श्च मुसुदेतराम् ॥१५॥ सेवकं पातिसाहेश्व श्रीसको मोदयत्तराम् । जीवितार्हस्वदानाच्च मृष्टानादिकमोजनात् ॥१६॥ प्रातिष्ठत ततः सूरिः सुमुहूर्त शुभे दिने । श्रीमन्तं सहन्मापृच्छ्य सुधी-साधुसमन्वितः ॥१७॥ आयो नयविजयाख्यः १ श्रीमेघविजयो २ ऽपरः। श्रीमेरुविजयो ३ विद्वान् , श्रीनन्दिविजयः ४ कविः ॥१८॥ २-आश्रवो वचने स्थित इति कथनकारीत्यर्थः । विधेयो विनयप्राही इत्यमरः । ५-श्रीगुरुणा श्रीहीरविजयसूरीन्द्रेण ख्यातं कथितं श्रीगुरुख्यातम् । कस्मात् मन्मुखातू प्रधानवदनात् , कथंभूतात् सन्मुखात्, अत एव पारमेश्वरात्-परमेश्वरस्य इवं पारमेश्वरं तस्ये. दमित्यण् । पारमेश्वरमिव पारमेश्वरं उत्प्रेक्ष्यते; परमेश्वरमुखमिवेत्यर्थः, तस्मात् । १३-राजधन्याख्यपुरे रायधणपुरे इत्यर्थः ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140