Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 33
________________ २८ श्रीषल्लभोपाध्यायविरचित [षष्ठः मादृशाङ्गस्य संयोगात् तदङ्ग न सुखायते । तददुःखे दुःखं स्यान्मदास्यापि सर्वथाः ॥३७॥ पवित्रं भवदङ्गं चेन्मदङ्ग मलिनं स्पृशेत् । भवदनं तदा स्वामिन् , मदङ्गान सुखायते ॥३०॥ एवं राजेन्द्र गङ्गाङ्गं मादृशाङ्गस्य योगतः । सर्वदा बहुदुःखाय न सुखाय कदापि हि ॥३९॥ विना गङ्गाजलं देव प्रतिष्ठादि भवेन हि । तन्मे मान्या सदा गङ्गान मान्येत्युच्यते कथम् ॥४०॥ -इति गङ्गाङ्गीकारः। बोधयित्वेति सज्ज्ञानं पातिसाहिमकब्बरम् । अरअयत्तदा सरिरजयत् प्रतिवादिनः ॥४१॥ जितकाशी तदा भूत्वा महोत्सवपुरस्सरम् । सरिरायाद्दधत्साक्षाजयरूपमुपाश्रये ॥४२॥ -इति श्रीमदकबरपातिसाहिसदसि श्रीविजयसेनसूरिभिः पराजितपतिवादिवर्णनम् ॥ चतुर्मास्यौ दुके तत्र व्यधाद् धर्माभिलाषुकः। आग्रहात्पातिसाहेस्स तचेतस्तोषको यतः॥४॥ हीरविजयसूरीन्द्रं संविज्ञायामयाविनम् । पातिसाहिं स आपृच्छ्य श्रीसूरीन्द्रस्ततोऽचलत् ॥ गूर्जर देशमागच्छंश्चतुर्मासी समाप्तवान् । श्रीसूरिः सादडीद्रङ्गे सद्रङ्गे श्रीभिरन्वहम् ॥४५॥ संजातं स्वर्गिणं स्वर्गे श्रीहीरविजयं गुरुम् । मत्र्यलोकं परित्यज्य वचः श्रुत्वेति दुस्सहम् ॥४६॥ श्रावकैरक्ष्यमाणोऽपि चतुर्मास्यन्त आग्रहात् । सोत्सवः पत्तनद्रङ्गे प्रस्थायायात्ततो गुरुः ॥४७॥ ३७-तदङ्ग जलमयं गङ्गाङ्गं कर्तृ न सुखायते न सुखं वेदयतीत्यर्थः। कस्मात् माशाअस्य संयोगात् । तदङ्गदुःखे जलमयगङ्गाङ्गदुःखे मदङ्गस्यापि सर्वथा दुःखं स्यात् । तदेव प्रकटयन्नाह. ३८-उक्तिलेशश्चास्य-हे स्वामिन् हे अकबरपातिसाहे चेद् यदि मलिनं मदङ्ग मम कायः पवित्रं भवदङ्गं भवतः कायं कर्मतापन्नं स्पृशेत् तदा मदङ्गात् मम कायात् कारणात् भवदङ्ग भवतः कायः कर्वा न सुखायते न सुखं वेदयतीत्यर्थः । उभयत्रापि श्लोके सुखायते इति क्रियापदं सुखादिभ्यः कर्तृवेदनायां इति अनुभवेऽर्थे क्यङि सिद्धम् । ३९-एवममुना प्रकारेण मदङ्गाद् भवदङ्गं न सुखं अनुभवति इति लक्षणेन । ४१-अजयत्प्रतिवादिन इत्यत्र च शब्दाप्रयोगेऽपि आर्थों अन्वाचयार्थश्वकारो ज्ञेय । ४३-स श्रीविजयसेनसूरिः तत्र श्रीलाभपुरे द्वके द्वे चतुर्मास्यौ व्यधात् । कस्मात् पातिसाहेः श्रीमदकब्बरस्याग्रहात् । कथंभूतः स ? धर्माभिलाषुकः । कथं भूतः स यतः तच्चेतस्तोषकः श्रीमदकब्बरपातिसाहिहृदयसन्तोषकारी । दके इत्यत्र भबैषाजाज्ञाद्वास्वानामिति वैकल्पिकेकाराभावः । इकारसद्भावपक्षे द्विके इत्युभयमपि रूपम् । ४४-श्रीसूरीन्द्रः श्रीविजयसेनसूरिः ततः श्रीलाभपुरात् । ४७-गुरुः श्राविजयसेनसूरिः ततः सादडीव्रङ्गात् ।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140