________________
२८
श्रीषल्लभोपाध्यायविरचित
[षष्ठः मादृशाङ्गस्य संयोगात् तदङ्ग न सुखायते । तददुःखे दुःखं स्यान्मदास्यापि सर्वथाः ॥३७॥ पवित्रं भवदङ्गं चेन्मदङ्ग मलिनं स्पृशेत् । भवदनं तदा स्वामिन् , मदङ्गान सुखायते ॥३०॥ एवं राजेन्द्र गङ्गाङ्गं मादृशाङ्गस्य योगतः । सर्वदा बहुदुःखाय न सुखाय कदापि हि ॥३९॥ विना गङ्गाजलं देव प्रतिष्ठादि भवेन हि । तन्मे मान्या सदा गङ्गान मान्येत्युच्यते कथम् ॥४०॥
-इति गङ्गाङ्गीकारः। बोधयित्वेति सज्ज्ञानं पातिसाहिमकब्बरम् । अरअयत्तदा सरिरजयत् प्रतिवादिनः ॥४१॥ जितकाशी तदा भूत्वा महोत्सवपुरस्सरम् । सरिरायाद्दधत्साक्षाजयरूपमुपाश्रये ॥४२॥
-इति श्रीमदकबरपातिसाहिसदसि श्रीविजयसेनसूरिभिः पराजितपतिवादिवर्णनम् ॥ चतुर्मास्यौ दुके तत्र व्यधाद् धर्माभिलाषुकः। आग्रहात्पातिसाहेस्स तचेतस्तोषको यतः॥४॥ हीरविजयसूरीन्द्रं संविज्ञायामयाविनम् । पातिसाहिं स आपृच्छ्य श्रीसूरीन्द्रस्ततोऽचलत् ॥ गूर्जर देशमागच्छंश्चतुर्मासी समाप्तवान् । श्रीसूरिः सादडीद्रङ्गे सद्रङ्गे श्रीभिरन्वहम् ॥४५॥ संजातं स्वर्गिणं स्वर्गे श्रीहीरविजयं गुरुम् । मत्र्यलोकं परित्यज्य वचः श्रुत्वेति दुस्सहम् ॥४६॥ श्रावकैरक्ष्यमाणोऽपि चतुर्मास्यन्त आग्रहात् । सोत्सवः पत्तनद्रङ्गे प्रस्थायायात्ततो गुरुः ॥४७॥
३७-तदङ्ग जलमयं गङ्गाङ्गं कर्तृ न सुखायते न सुखं वेदयतीत्यर्थः। कस्मात् माशाअस्य संयोगात् । तदङ्गदुःखे जलमयगङ्गाङ्गदुःखे मदङ्गस्यापि सर्वथा दुःखं स्यात् । तदेव प्रकटयन्नाह.
३८-उक्तिलेशश्चास्य-हे स्वामिन् हे अकबरपातिसाहे चेद् यदि मलिनं मदङ्ग मम कायः पवित्रं भवदङ्गं भवतः कायं कर्मतापन्नं स्पृशेत् तदा मदङ्गात् मम कायात् कारणात् भवदङ्ग भवतः कायः कर्वा न सुखायते न सुखं वेदयतीत्यर्थः । उभयत्रापि श्लोके सुखायते इति क्रियापदं सुखादिभ्यः कर्तृवेदनायां इति अनुभवेऽर्थे क्यङि सिद्धम् ।
३९-एवममुना प्रकारेण मदङ्गाद् भवदङ्गं न सुखं अनुभवति इति लक्षणेन । ४१-अजयत्प्रतिवादिन इत्यत्र च शब्दाप्रयोगेऽपि आर्थों अन्वाचयार्थश्वकारो ज्ञेय ।
४३-स श्रीविजयसेनसूरिः तत्र श्रीलाभपुरे द्वके द्वे चतुर्मास्यौ व्यधात् । कस्मात् पातिसाहेः श्रीमदकब्बरस्याग्रहात् । कथंभूतः स ? धर्माभिलाषुकः । कथं भूतः स यतः तच्चेतस्तोषकः श्रीमदकब्बरपातिसाहिहृदयसन्तोषकारी । दके इत्यत्र भबैषाजाज्ञाद्वास्वानामिति वैकल्पिकेकाराभावः । इकारसद्भावपक्षे द्विके इत्युभयमपि रूपम् ।
४४-श्रीसूरीन्द्रः श्रीविजयसेनसूरिः ततः श्रीलाभपुरात् । ४७-गुरुः श्राविजयसेनसूरिः ततः सादडीव्रङ्गात् ।