________________
सर्गः]
२७
विनयदेषसूरि-माहात्म्यम् विद्याविजय ५ इत्यादि-विनेयैर्विनयोधतैः ।
प्रज्ञया गुरु १-शुक्र २-झै ३रिव संसेवितः सदा ॥१९॥ त्रिभिर्विशेषकम् ॥ ये ग्रामा ये च सद्गास्तान सिञ्चन धर्मधारया । भअन् दुरितदुष्कालं प्रमोदं पापयञ् जनान् ॥ श्रीमरिनीरदो गर्जन प्रापानुक्रमतोऽचिरात् । श्रीमल्लाभपुरद्रङ्गं पातिसाहिविराजितम् ॥२१॥ सडन्स्तत्रत्य आहत्य प्रणत्य च ततो गुरुम् । कृत्वा महोत्सवं दिव्यमुपाश्रये समानयत् ॥२२॥ अकबरं पातिसाहि दिने दिव्ये ततोऽमिलत् । श्रीसूरि रिसूरिश्रीजितान्यप्रतिवाधरिः॥२३॥ विनयात् पातिसाहि-श्रीमदकब्बर आनमत् । तं तदा शिरसा भूपान् पश्यतः शस्यचेतसा ॥ अथापच्छद् गुरुं धीमान् पातिसाहिरिदं तदा । षड्दर्शनानुसम्बन्धिधर्मवात सुधर्मधीः ॥ दर्शनानां तदा षण्णां विविच्यैव पृथक्पृथक् । तं विवेकिनमुर्वीनं स धर्म प्रत्यबोधयत् ॥२६॥ सर्वदर्शनसम्बन्धिधर्म ज्ञात्वा पृथक्पृथक् । केनचित्प्रेरितः साहिरपृच्छत् पुनरीदृशम् ॥२७॥ सूरे कि मनुषे न त्वं रामं गङ्गां च मातृकाम ? । सूरि माह प्रभो मैवं मन्वेहं तद् वयं सदा ॥ रामध्यानं सदा कुर्वे हृदि तद्ध्यानतत्परः । नोचरामि मुखेनास्य ज्ञानहीनश्च कीरवत् ॥२९॥ राति सर्व मनोभीष्टमिति रा वाञ्छितपदः।मथ्नाति सर्वतः पापमिति मः पापनाशकः ॥३०॥ इत्यक्षरद्वयार्थत्वाद् रामनाम स्मृतं बुधैः । तत्स्मरामि सदा स्वामिन् न स्मरामि कथं किल ।
-विस्मरामि न कर्हिचित्-इति पाठान्तरम् ॥३१॥ युग्मम् ॥ अपवित्रशरीरस्य रामध्यानं च चेतसि । अपवित्रे तथा मार्गे स्यात्सदा पापद्धये ॥ ३२ ॥
-इति रामनाम-ध्यानाङ्गीकारः॥ अहो अगमलाक्षेपो गङ्गायां क्रियते कथम् । गङ्गा तु मातृकोच्येत पूज्यते देवतेव सा ॥३३॥ तस्यामङ्गमलक्षेपं स्नानात् कुयों न लोकवत् । पावित्र्यभृति मात्रओं कथं पुत्राङ्गसङ्गतिः॥३५॥
-यतः पवित्रमात्रओं कथं पुत्रागसंगतिः-इति पाठान्तरम् ॥ जलमेव तदङ्ग स्यान्माननीयं तदेव च । तद्विनोच्येत नो गङ्गां तद्विना न तदर्चनम् ॥३६॥
२३-भूरिः प्रचुरा सूरिषु पण्डितेषु भट्टारकेषु वा श्रीर्वेषरचना १ शोभा २ भारती ३ लक्ष्मीः ४ त्रिवर्गसम्पत्तिः ५ मति ६ वा यस्य सः भूरिसूरिश्रीः । अथवा श्रीसूरिभूरिसूरिश्रीतिरस्कारकरः परः इति पाठान्तरम् । तदाऽस्यायमर्थः भूरिसूरीणां प्रचुरभट्टारकाणां प्रचुरपण्डितानां वा श्रीः पूर्वोक्तषडर्था तस्यास्तिरस्कारं करोतीति भूरिसूरिश्रीतिरस्कारकरः परः प्रकृष्टः तदेव प्रकटयति ।
३६-तदेव जलमेव तद्विना जलेन विना गङ्गा नोच्येत न कथ्येत । तद् विना गङ्गा विना । न तदर्चनं न गङ्गा पूजा न गङ्गां माननमित्यर्थः ।