Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 22
________________ सर्गः] विजयदेवसूरि-माहात्म्यम् २१ स स्वचित्ते विचिन्त्यैवं तदा पितरमब्रवीत् । मपये चरणं हृधमाज्ञया भवतः खलु ॥२०॥ पितापितं तदा प्राह प्रव्रजिष्याम्यमा त्वया । संसारापारदुःखेभ्यो भृशमुनिमानसः ॥२१॥ अपृच्छयत तदा ताभ्यां मुदा कोडिमदेव्यपि । आवां परिव्रजिष्यावः पितृपुत्रौ तवाज्ञया॥२२॥ सा माहात्र स्थिताहं किं करिष्यामि युवां विना । युवां यथा तथाहं च प्रव्रजिष्यामि सर्वथा ॥ आलोच्यैवं पिता माता पुत्रश्चैते त्रयो मिथः । दीक्षायै प्रयतात्मानः प्रायतन्त समन्ततः॥२४॥ तद्यथा-अनेकवरयात्राभिः क्रियमाणाभिरादरात् । श्रावकै गरैलोकैदिवसे दिवसेऽधिकैः ॥ वाघमानैः सदातोचैरनवद्यैर्वाद्यवादकैः । गीयमानैर्धनैर्गातः कान्ताभिश्च नृभिर्बुधैः ॥ २६ ॥ अश्वारूढः कदाचिच्च गजारूढः कदाचन । नृसिंहो जयसिंहोऽसौ तदा राजत राजवत्॥२७॥ -त्रिभिविशेषकम् । शुभे मासे सिते पक्षे शोभनायां तिथौ तथा । नक्षत्रे च शुमे लग्ने शुभे योगे शुभे भृशम्॥२८ हीरविजयसूरीन्द्रो जयसिंहमदीक्षत । पित्रा मात्रा च संयुक्तं महोत्सवपुरस्सरम् ॥ युग्मम् तदा यत्सुकृतं जातमन्यच्छीलव्रतादिजम् । द्रव्यादिव्ययजातं च तद्वक्तुं शक्नुमो नहि ॥३०॥ हीरविजयसूरीन्द्रस्तन्नामेदं तदावदत् । जयकुशलकारित्वात् जयकुशलपण्डितः ॥३१॥ (विजयविमलानन्दाद् विजयविमलः सुधी:-इति वा पाठः) हीरविजयसूरीन्द्रो जयसिंहश्च सत्पिता । शिष्येण गुरुणानेन सर्वदाऽत्यसुखायत ॥३२॥ सबोऽनवद्याः सद्विद्या अपठत्स चतुर्दश । अशिक्षत च तत्कालममला: सकलाः कलाः॥३३ सजनोदयसन्तोषी पर दुखनिवारकः । सत्यसाहससंशोभी सोऽभवद् वादकर्मठः ॥१४॥ दानशीलः सुधीलालः सिंहवज्जयसंश्रयः । स रराज विनीतो यो यौवनश्रीयुतस्ततः ॥३५ श्रीपण्डितपदं पूर्व तस्मै तदनु चोत्सवात् । उपाध्यायपदं सोध्दात् सोऽभादेवं दिने दिने । कियत्यपि गते काले गच्छभारधुरन्धरम् । शान्तात्मानं वरीयांसं सर्वशिष्येभ्य उत्तमम् ॥३७॥ सर्वकार्यकरं दृष्ट्वाऽभ्यषिश्चत्तं शुभे दिने । श्रीसूरिर्युवराज्यत्व आचार्यपदनामके ॥ युग्मम् ॥ श्रेष्ठी मूलाभिधोऽकार्षीत् श्रेष्ठसूरिपदोत्सवम् । न चेदृर्श पुराकाषुः सूरीणां प्राक्तना जनाः॥ यावन्तो मिलितास्तत्र जना नवनवा घनाः । तावन्तो भोजयत्तांश्च कुण्डलीभिर्यथेप्सितम् ॥ ३२-हीरविजयसूरीन्द्रः शिष्येन जयसिंहनाना करणभूतेन सर्वदा अत्यसुखायत अतिशयेन सुखं वेदयतिस्म । यन्ममायं शिष्यः पट्टयोग्यो भविष्यतीत्यतिसुखमवेदयदिति भावः । पः समुपये । जयसिंहः शिष्यः अनेन गुरुणा श्रीहीरविजयसूरीन्द्रेण करणभूतेन सर्वदा अत्यसुखायत अतिशयन सुखं वेदयति स्म । धन्यो यदस्य शिष्योऽभवामिति आतिसुखमवेदयदि त्यभिप्रायः । कथंभूतो जयसिंहः सपिता प्रधानपितृकः पितृयुक्त इत्यर्थः । सुखादिभ्यः कर्तृवेदनायामिति क्या ।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140