________________
सर्गः] विजयदेवसूरि-माहात्म्यम्
२१ स स्वचित्ते विचिन्त्यैवं तदा पितरमब्रवीत् । मपये चरणं हृधमाज्ञया भवतः खलु ॥२०॥ पितापितं तदा प्राह प्रव्रजिष्याम्यमा त्वया । संसारापारदुःखेभ्यो भृशमुनिमानसः ॥२१॥ अपृच्छयत तदा ताभ्यां मुदा कोडिमदेव्यपि । आवां परिव्रजिष्यावः पितृपुत्रौ तवाज्ञया॥२२॥ सा माहात्र स्थिताहं किं करिष्यामि युवां विना । युवां यथा तथाहं च प्रव्रजिष्यामि सर्वथा ॥ आलोच्यैवं पिता माता पुत्रश्चैते त्रयो मिथः । दीक्षायै प्रयतात्मानः प्रायतन्त समन्ततः॥२४॥ तद्यथा-अनेकवरयात्राभिः क्रियमाणाभिरादरात् । श्रावकै गरैलोकैदिवसे दिवसेऽधिकैः ॥ वाघमानैः सदातोचैरनवद्यैर्वाद्यवादकैः । गीयमानैर्धनैर्गातः कान्ताभिश्च नृभिर्बुधैः ॥ २६ ॥ अश्वारूढः कदाचिच्च गजारूढः कदाचन । नृसिंहो जयसिंहोऽसौ तदा राजत राजवत्॥२७॥
-त्रिभिविशेषकम् । शुभे मासे सिते पक्षे शोभनायां तिथौ तथा । नक्षत्रे च शुमे लग्ने शुभे योगे शुभे भृशम्॥२८ हीरविजयसूरीन्द्रो जयसिंहमदीक्षत । पित्रा मात्रा च संयुक्तं महोत्सवपुरस्सरम् ॥ युग्मम् तदा यत्सुकृतं जातमन्यच्छीलव्रतादिजम् । द्रव्यादिव्ययजातं च तद्वक्तुं शक्नुमो नहि ॥३०॥ हीरविजयसूरीन्द्रस्तन्नामेदं तदावदत् । जयकुशलकारित्वात् जयकुशलपण्डितः ॥३१॥
(विजयविमलानन्दाद् विजयविमलः सुधी:-इति वा पाठः) हीरविजयसूरीन्द्रो जयसिंहश्च सत्पिता । शिष्येण गुरुणानेन सर्वदाऽत्यसुखायत ॥३२॥ सबोऽनवद्याः सद्विद्या अपठत्स चतुर्दश । अशिक्षत च तत्कालममला: सकलाः कलाः॥३३ सजनोदयसन्तोषी पर दुखनिवारकः । सत्यसाहससंशोभी सोऽभवद् वादकर्मठः ॥१४॥ दानशीलः सुधीलालः सिंहवज्जयसंश्रयः । स रराज विनीतो यो यौवनश्रीयुतस्ततः ॥३५ श्रीपण्डितपदं पूर्व तस्मै तदनु चोत्सवात् । उपाध्यायपदं सोध्दात् सोऽभादेवं दिने दिने । कियत्यपि गते काले गच्छभारधुरन्धरम् । शान्तात्मानं वरीयांसं सर्वशिष्येभ्य उत्तमम् ॥३७॥ सर्वकार्यकरं दृष्ट्वाऽभ्यषिश्चत्तं शुभे दिने । श्रीसूरिर्युवराज्यत्व आचार्यपदनामके ॥ युग्मम् ॥ श्रेष्ठी मूलाभिधोऽकार्षीत् श्रेष्ठसूरिपदोत्सवम् । न चेदृर्श पुराकाषुः सूरीणां प्राक्तना जनाः॥ यावन्तो मिलितास्तत्र जना नवनवा घनाः । तावन्तो भोजयत्तांश्च कुण्डलीभिर्यथेप्सितम् ॥
३२-हीरविजयसूरीन्द्रः शिष्येन जयसिंहनाना करणभूतेन सर्वदा अत्यसुखायत अतिशयेन सुखं वेदयतिस्म । यन्ममायं शिष्यः पट्टयोग्यो भविष्यतीत्यतिसुखमवेदयदिति भावः । पः समुपये । जयसिंहः शिष्यः अनेन गुरुणा श्रीहीरविजयसूरीन्द्रेण करणभूतेन सर्वदा अत्यसुखायत अतिशयन सुखं वेदयति स्म । धन्यो यदस्य शिष्योऽभवामिति आतिसुखमवेदयदि त्यभिप्रायः । कथंभूतो जयसिंहः सपिता प्रधानपितृकः पितृयुक्त इत्यर्थः । सुखादिभ्यः कर्तृवेदनायामिति क्या ।