________________
श्रीवल्लभोपाध्यायविरचितं
[ तृतीय दीपज्योतिरिवान्योऽन्यं सम्मिलितपृथक स्थितः।ज्योतिरूपं चिदानन्दं धरन् भायात्स ईश्वरः
-इति परमेश्वरस्वरूपम् । दयासंयमसंयुक्ते तपश्चरणतोऽचिरात् । साक्षात्पुण्यात्मभिः पुंभिः प्राप्यते परमेश्वरः ॥ ६५ ॥
-इति परमेश्वरप्राप्तिः । वाक्यरित्यादिस्तित्त्वं प्रत्यबोध्यत तेन सः। मृष्टैर्मध्वास्रवैः स्पष्टैः क्षीरास्रवघृतास्रवैः ॥६६॥ अमरत्सूरिः पाथोदस्तदुहृदयसरस्तदा । गुरुधर्मश्वरास्तित्वज्ञानाङ्गीकारवारिणा ॥ ६७ ॥ तद्धृदयं सरोरम्यं सुरिर्मेघ इवाभरत् । गुरुधर्मश्वरास्तित्व-ज्ञानाङ्गीकृतिभी रसैः ॥ ६८॥ अनेकच्छेकसूरीन्द्रसाधुश्रावकपक्षिभिः । सेव्यमानं तदा दीव्यत् तद्धर्मजललब्धये ॥ ६९ ॥ आगरानगराद् यावदजमेरपुरं पथि। मनारान् कूपिकोपेतान् प्रतिक्रोशमकारयत् ॥७०॥ स्वकीयमृगयारङ्गत्कलाकुशलतां जनान् । ज्ञापयितुं मृगानेकशृङ्गध्वजविराजितान् ॥७१॥ पापीयानीदृशोऽनेकजीवासापरायणः । अभवत्स पुरा नित्यं रूपभृत्पापमेव यत् ॥ ७२ ॥
-त्रिभिर्विशेषकम् ।। हीरविजयसूरीन्द्रसद्गुरोर्योगतोऽधुना । दयादानानलसादेसगरगो बभूव सः ॥ ७३ ॥ सद्गुरौ जिनधर्मे च प्रीतचेतास्ततोऽथ सः । इत्याह जगदाश्चर्यकारणं श्रीगुरुं प्रति ॥ ७४ ॥ अामान् द्रङ्गान् गजानवान् द्रव्याणि प्रचुराणि च । ददाम्यहं गृहाण त्वमिति चानुगृहाण भोः॥ गुरुराह ततो-भूप, त्यक्त्वतान् सत आलये। भिक्षे वस्तूचितं युक्तो नैतेषां संग्रहो मम ॥७॥ धन्योऽयं निःस्पृहः स सांसारिफमुवस्तुषु । स्वोचितं वस्तु यल्लाति, स तदेति व्यचिन्तयत् ॥ ततः पुनरिति स्वीये हृद्यालोचयति स्म सः । एतद्योग्यं गृहे मेऽस्ति पुस्तकं तद्ददाम्यहम् ॥ विचार्यैवं तदा चित्ते कृत्वा च प्रचुराग्रहम् । ददौ श्रीगुरवे दिव्यं सिद्धान्तादिकपुस्तकम् ॥ पुत्र मित्रे कलत्रे च धनस्वजनभूषने । ग्रामे द्रने गजादौ च निरीहाय महात्मने ॥ ८०॥
-युग्मम् । ६७-तहृदयं तस्य पातिसारकब्बरस हृदयमेव सरस्तद्धृदयसरः तद्धृदयं अकब्बरपातिसाहिहृदयं रसैः पानीयरित्यर्थः।
७०-७२-स अकब्बरपातिसाहिः आगरानगरात् अजमेरनगरं यावत् मार्गे प्रतिक्रोशं कूपिकोपेतान् मनारान् कारयित्वा स्वकीयाखेटककलाकौशल्यप्रकटनकृते प्रतिमनारं शतशो हरिणविषाणरोपणकारणादिना प्रथमतो जन्तुं जातव्याघातसंजातचेतोरतिः स भूपतिततिपतिः श्री अकबरपातिमाहिः हीरविजयसूरिसद्गुरोर्योगतः सम्बन्धात् मधुना दयादानानगरादिसंगरंगो बभूव ।
७५-अनुगृहाण अनुप्रहं कुरु प्रसाद कुरु इत्यर्थः ।