________________
२२ श्रीवल्लभोपाध्यायविरचित
[ चतुः पादातेभ्यश्च सदाः सौवर्णालिद्रिकाः । श्रीमत्यहम्मदावादे सर्वत्रावर्ततोत्सवः ॥४१॥
-त्रिभिर्विशेषकम् ॥ श्रीरले पत्तनद्रने यस्य पद्वन्दनोत्सवम् । अधिकं श्रावकोऽकार्षीत् पूर्वपदवन्दनोत्सवात् ॥४२॥
एवं सूरिवरस्य हीरविजयाख्यस्य प्रशस्ये पदे, दीप्तं तं विजयादिसेनसुगुरुं सर्वात्मना निर्मलम् । श्रीमान् वासकुमार एष उदयी पर्यक्षताचारतः,
श्रीश्रीवल्लभपाठकश्च यमिति व्याख्यातवान् सद्गुणैः ॥४॥ इति श्री बृहत्खरतरगच्छीय श्रजिनराजसूरि सन्तानीय पाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपातिसाहि श्रीअकबर प्रदत्तजगद्गुरु-विरुदधारकभट्टारक श्रीहीरविजयसूरीश्वर पट्टालङ्कार पातिसाहि श्रीअकब्बरसमासंलब्ध दुर्वादिजयवादभट्टारक श्रीविजयसेनसूरीश्वर पट्टपूर्वाचलसहस्रकरानुकारि पातिसाहि श्रीयहांगीर प्रदत्तमहातपाविरुधारि भट्टारक श्रीविजयदेवसूरीश्वर गुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजदेवसरि गुरुवर्णनपरीक्षणो नाम चतुर्थः सर्गः ॥ ४ ॥