________________
सर्गः
विनयदेवसूरि-माहात्म्यम्
पञ्चमः सर्गः
अथ श्यहम्मदावादे स्थिरः श्रेष्ठी समाययौ । पुत्रस्य स्वस्य पल्याच दीक्षापाहणहेतवे ॥१॥ गृहे गृहिण एकस्य यावद्वसनभाटकम् । दत्त्वा तत्रावसदृश्यः पुण्यात्मा पुरुषोत्तमः ॥२॥ अथारेमे ततः श्रेष्ठी दीक्षायाः सन्महोत्सवम् । श्रीमद्वासकुमाराख्य-पुत्रस्य स्वस्य च खियः॥ तद्यथा-व्यचित्रयविचित्राणि चित्राणि वरवर्णकैः ।
गृहभित्तीः सुनिच्छित्तीः कविः काव्यततीरिव ॥४॥ गृहस्य मानणं प्राभात् स्वतिकाब्जादिमण्डनैः। मण्डितं पण्डितस्त्रीभिस्तदा चित्रितवस्तुवः ॥ चन्द्रोदयचयो यत्र प्रतिस्थानं नियन्त्रितः । चन्द्रोदय इव पायो मनोहरन्मनोहरः ॥६॥ बद्धमुचैः कचित्तत्र स्थूलं स्थूलं व्यलीलसत् । शृङ्गारमिव रोदस्योः मालम्बनकसः तम् ॥७॥ यत्र हाजापटेलस्य प्रतोली बहुलालया। अस्ति, सन्ति हि यस्यां च सकला बहुलालया। मण्डपं मण्डयामास दीक्षायास्तत्र सुन्दरम् । पञ्चवर्णमयैर्वस्वैश्चित्रकद्भिर्विचित्रितैः ॥ युग्मम् ॥ मुखमल्ला बभुर्यत्र मुखमल्ला बुधा इव । वाणीवर्णविशेषाणां रचनाभिरमकाः॥१०॥ जरबाफादयः क्वापि विशेषा वाससामिमे । वमुनेत्रमिया यत्र नानाविच्छित्तिनिर्मिताः॥११॥ आयाताः सूर्यचन्द्रायाः ग्रहा इव मुविग्रहाः । तन्मिपात्तन्मुखं दृष्टं नानासंस्थानसंस्थिताः ॥ द्वारं तस्य विभाति स्म रम्भास्तम्भविशोभितम् । मुखानां कौतुकानां च संकेत इव रूपवान् । खं भुवं चान्तरायश्च विमानमिदमीदृशम् । यावाभूम्योविंदूरस्थं पुत्रीदेवादियुग् व्यभात् ॥ आदर्शी रचना यत्र कुत्रचित्लीतिकारिणी । तदा श्रेणिरभूत्युंसां दृष्टान्तानां परस्परम् ॥१५॥ आदर्शी रचना यत्र कुत्रचित्सर्वतस्तदा । प्रतिबिम्बेन लोकानां वक्तीव किमु नगुणान् ॥१६॥ क्वाप्यत्र स्वस्तिकादीनि मौक्तिकग्रंथितानि हिमालम्नकभास्वन्ति मोहयन्ति स्म मानवान्। पण्डितानक्षराणीव लिखितानि खटीरसैः । मात्राबिन्दुमदीसानि प्रकटान्युज्ज्वलानि च ॥
-युग्मम् । इति दीक्षामण्डपवर्णनम् ॥ आकारयत्स आराममभिराममनिन्दितम् । पुत्रस्य वरयात्रायै नानाकृत्रिमवृक्षकः ॥ १९ ॥
११-अत्र विच्छित्तिः रचना विशेष:-कुत्रचित् जन्तुरूपाणि, कचित् पनानि, कचित् पुष्पाणि, कचित् सूयचन्द्रतारकाकारा इत्यादिलक्षणः।
१२-नानासंस्थानसंस्थिता:-नाना बहु प्रकारं संस्थानं रचना स्वस्वाकारस्वरूपा रचना तेन संस्थिताः समन्ततः स्थिता ये ते तथा । वन्मिषात् जरवाफादिमिषात् । तन्मुखं श्रीवासकुमारमुखम् ।