________________
सर्गः]
विनयदेवसूरि-माहात्म्यम्
तृतीयः सर्गः
अथ वासकुमारः सन् कुर्वन गुरुपरीक्षणम् । लब्धवान् सद्गुरुं तं च बुद्धवान् गौतमाधिकम् ॥१॥ तद्यथा-अथाभूत्स पुरा वीरश्चतुर्विंशो जिनेश्वरः।
शासने यस्य भूयांसो गच्छाः सन्त्युदितश्रियः ॥२॥ तेषु गच्छस्तपानाम प्रसिद्धोऽस्ति प्रसिद्धिमान् । विधानात्तपसः शश्वहुस्तपस्यविशेषतः ॥३॥ तत्र वीरजिनाधीशपट्टानुक्रमसंश्रितः । षट्पञ्चाशपदं सरिरानन्दविमलोऽश्रयत् ॥४॥
आचारं शिथिलं त्यक्त्वा व्यधादाचारमुत्कटम् । श्राद्धलोकांच्युतान्धर्मादादधार च यः क्षणात्॥ महेभ्यानां महेभ्यानां पुत्राणां च शतानि च । त्याजयित्वा कुटुम्बादि मोहं दीक्षयसिस्म च ॥ आनन्दविमलसूरेः सप्तपञ्चाश[त]त्पदे । विजयदानसूरीन्द्रः सोभाद् भानुरिवोदये ॥ ७ ॥ श्रीस्तम्भतीर्थ-पत्तन-श्रीराजनगरादिषु । जिनबिम्बशताब्जानि प्रतिष्ठां योऽनयत् क्षणैः ॥८॥
४-६-सन्ततपागच्छे स आनन्दविमलसूरिः षट्पञ्चाशपदं षट्पञ्चाशतः पूरणं षट्पश्चाशं तञ्च तत्पदं च स्थानं षट्पञ्चाशपदं ५६ तत् अश्रयत् असेवत । कथंभूतः आनन्दविमलमूरिः? वीरजिनाधीशपट्टानुक्रमसंश्रित : वीरजिनार्धाशात्पट्टानां योऽनुक्रमस्तं संश्रितो यः स तथा; द्वितीयाश्रितातीतेति द्वितीया तत्पुरुषः । स कः य आनन्दविमलसूरिः शिथिलं आचारं त्यक्त्वा उत्कटं आचारं सिद्धान्तप्रणीतगौतमादिगणधरस्थूलभद्रादिसाधुयथाविधिविहिततपःक्रियादिसमाचरणं व्यधात् । चः पुनः धर्माच् च्युतान् श्राद्धलोकान् क्षणात् आदधार उद्धृतवान् । तथा चात्र वार्तालेश:-श्रीआनन्दविमलसूरिः क्रियाशिथिलबहुलसाधुलोकपरिवृतोऽपि संवेगरङ्गतरङ्गनिश्चलभावितचेताः श्रीविक्रमनृपाद् व्यशीत्यधिक पञ्चदशशत १५८२ वर्षे कतिचित्साधुपरिवृतः श्रीमदहत्प्रतिमाप्रतिषेध १ साधुजननिषेध २ प्रमुखोत्सूत्रप्ररूपणरूपसमुद्रे ब्रुडतोऽनेकलोकान् विलोक्य करुणारसरसिकमानसः श्रीहेमविमलसूरिगुरुप्रवराज्ञया शिथिलाचारपरिहरणलक्षणक्रियोद्धरणप्रवहणेन तान् तत्कालात्समुद्धृतवान् । तथा महेभ्यानां महेभ्यपुत्राणां चानेकानि शतानि प्रतिबोध्य कुटुम्बधनधान्यादि मोहं प्रतिषेध्य च प्राब्राजितवान् इति श्लोकद्वयार्थः । एवं चास्यानेके अवदाताः सन्ति तांश्चात्र प्रन्थविस्तरभिया नाकथयाम नचालिखाम।
७-८-उदये उदयाचले णीगप्रापणे अस्य द्विकर्मत्वात्। जिनबिम्बशताब्जानि प्रतिष्ठामित्युभयत्र कर्म । क्षणैरुत्सवैः। श्रीराजनगरादिषु इत्यत्र आदिशब्दात् महीशानक-गन्धारवन्दिरादिग्राह्यम् ।