SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीवल्लभोपाध्यायविरचित [ तृतीयः शबुञ्जयगिरेर्मुक्ति पाण्मासिकीमकारयत् । यस्योपदेशसम्बुद्धो श्रुतपूर्वो रराज सः॥९॥ रत्राणमाहेमंद-राजमान्यो महद्धिकः । गलराजाभिधो मन्त्री यात्रां चक्रे च चक्रिवत् ॥१०॥ तत्पमुद्रिकाहीरो हीरविजयसूरिराट् । सोऽष्टपञ्चाशत्पट्टलक्ष्म्या लसति विष्णुवत् ॥ ११॥ यस्य सौभाग्यवैराग्यनिःस्पृहत्वादिसद्गुणैः। रञ्जितः स्तम्भतीर्थस्य व्ययं सडगे व्यधादिति।। इतीति किं तदाहव्याख्यानादिषु कार्येषु कार्येषु वरसूरिभिः । कोटिमेकां सटकानां तस्मिन्नव्यययत् स्थिते ॥ यस्य प्रतिपदं पादपमन्यासे सदाऽभवत् । सुवर्णटङ्कप्यादि नाणकानां प्रमोचनम् ॥ १४॥ मुक्ताफलादिभिर्दीव्यैर्वहुल्यैः शुभमदम् । रचनं स्वस्तिकानां च पुरतस्सोमिनन्दिति ।युग्मम् । ९-१०-स विजयदानसूरिः रराज । स कः ? यस्योपदेशसम्बुद्धो गलराजाभिधो मन्त्री अश्रुतपूर्वा पाण्मासिकी शत्रुजयगिरेमुक्तिं अकारयत् । च पुनः चक्रिवत् भरतचक्रिवत् यात्रां चक्रे । कथंभूतो गलराजभिधो मन्त्री ? सुरत्राण-महिमून्दराजमान्यः-सुरत्राणमहिमूदः पातसाहिः प्रसन्नमनाः श्रीगलराजमन्त्रिगे पर्यस्तिकावाहनं 'नगदलमलिक' इति विरुदं च दत्तवान् । पुन क० महर्षिकः । श्रीविजयदानसूरिप्रदत्तोपदेशप्रतिबुद्धः प्रबुद्धशत्रुजयतीर्थयात्राफलः श्रीसुरत्राणमाहिमून्दभूपतिमाननीयो मन्त्रिगलराजोऽपरनाम श्रीनगदलमलिकोऽश्रुतपूर्ण पाण्मासिकी शत्रुजयमुक्ति कारयित्वा सर्वदेशनगरपुरप्रामादिषु कुकुमपत्रिकाप्रेषणनिमन्त्रणानेकदेशनगरप्रामाचागतश्रीसकसमेतः शित्रुजययात्रां मुक्ताफलादिना श्रीशत्रुजयवर्धापनं च श्रीभरत. चक्रवर्तीव चकारेति । ११-स हीरविजयसरिराट् अष्टपञ्चाशत्पट्टलक्ष्म्या लसति क्रीडते । किं वत् ! विष्णुवत् नारायण इव । स कः ? यत्तदोर्नित्याभिसम्बन्धात्-यः तत्पट्टमुद्रिकाहीरः श्रीविजयदानसूरिपट्टरूपमुद्रिकायां होरोपमः अधिकशोभाविधायित्वात् । श्राहीरविजयसूरीणां विक्रमनृपात् यशीत्यधिके पञ्चदशशत वर्षे १५८३ मार्गशीर्षशुदि नवमीदिने प्राल्हादनपुरवास्तव्यः श्रीऊकेशज्ञातीय साह कुरा भार्या नाथी गृहे जन्म, षण्णवत्यधिक पञ्चदशशत वर्षे १५९६ कार्तिकवदि द्वितीयादिने पत्तननगरे दीक्षा, सप्ताधिके षोडशतवर्षे १६०७ नारदपुर्या श्रीऋषदेव प्रासादे पण्डितपदम् , अष्टाधिके षोडशशतवर्षे १६०८ माघ सुदि पञ्चमी दिने नारदपुर्या श्री बरकाणकपार्श्वनाथसनाथे श्रीनेमिनाथप्रासादे वाचकपदम् , पश्चादशाधिके षोडशशतवर्षे १६१५ सीरोहीनगरे सूरिपदं बभूवेति । १२-१३-स श्रीस्तम्भतीर्थवासी सङ्घः तस्मिन् श्रीहीरविजयसूरौ स्थिते एकां टकानां कोटिं अव्यययत् प्रभावनादिभिर्द्रव्यव्ययं चकार । व्ययण वित्तसमुत्सर्गे चुरादौ अदन्तः परस्मैपदी । केषु व्याख्यानादिषु कार्येषु कर्मसु, कथंभूतेषु वरसूरिभिः कार्येषु ।
SR No.010676
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samiti
Publication Year1928
Total Pages140
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy