________________
श्रीषल्लभोपाध्यायविरचित
[द्वितीयः (स्तकानेकसच्छिष्यश्रावकादिपरिच्छदे । पक्षीव ममतां सर्वां विभमुञ्चेस्त्वमात्मज ॥ समुत्पन्ने न कम्पेथाः परोषहाग्रुपद्रवे । दुःखदायिनि देहस्य पुत्रमेरुरिवोत्तम ॥ ७७ ॥ त्वं भवेः सर्वथा शुद्धहृदयः सर्वसाधुषु । शारदाम्भ इव प्रायः सर्वर्तुषु सुनिर्मलम् ॥ ७८॥ प्रदायेत्यादिकां शिक्षा शिक्षादानविचक्षणौ । प्रपतच्चक्षुरसू तौ व्यरजेतां तदा मुतात् ॥ ७९ ॥ दीक्षादेशं च सच्छिक्षां दीक्षाया रक्षणे तदा । लब्धा वासकुमारोऽयं हृदये मुमुदेतराम् ॥८॥ चारित्रं द्विविधं प्रोक्तं सर्वतो देशतस्तथा । साधूनां च गृहस्थानां मनीषितफलपदम् ॥८१॥ इति वासकुमारोऽथ चिन्तयामास मानसे । सर्वविरतिचारित्रमाश्चंगीकरवाण्यहम् ॥ ८२ ॥ धर्मेऽन्तराया भूयांसः संभवन्ति यतः सदा । अतो यतेयं चारित्रग्रहणे त्वरितं खलु ॥ ८३॥ देशविरतिचारित्रं पालयेयमथो पुरा । वीरसेनमहीपाल इवेति स व्यचारयत् ॥ ८४ ॥ तद्यथा-देशविरातेचारित्रं स पावर्तत पालयन् ।
सर्वविरतिचारित्रं जिगृहीषुस्ततः पुनः॥८५॥ पूर्व कर्यां गुरोर्वयाँ परीक्षा सर्वसाधुषु । गृह्णायां च ततश्चारु चारित्रं सर्वतः स्फुटम् ॥८॥ चारित्रं सर्वशास्त्राणां पठनं संयमस्तपः । इत्यादि निर्वहेत्सम्यक् संयोगे सद्गुरोर्यतः ॥४७॥
एवं वासकुमार एष चरणे चेतो यथाचीकरत
__ श्रीश्रीवल्लभपाठकेन पठितं पापठ्यमानं बुधैः । श्रुत्वा तच्च तथा जनाः सुमनसः संसारवासोद्भवम्
सौख्यं वैषयिकं विहाय विमलं तस्मिन् कुरुध्वं मनः॥८८ ॥ इति श्री बृहत्खरतरगच्छीय श्रीजिनराजसूरि सन्तानीय पाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपातिसाहि श्रीअकब्बर प्रदत्तजगद्गुरु-बिरुदधारकभट्टारक श्रीहीरविजयसूरीश्वर पट्टालङ्कार पातिसाहि श्रीअकब्बरसमासंलब्ध दुर्वादिजयवादभट्टारक श्रीविजयसेनसूरीश्वर पट्टपूर्वाचलसहस्रकरानुकारि पातिसाहि श्रीयहांगीर प्रदत्त. महातपाविरुधारिभट्टारक श्रीविजयदेवसूरीश्वर गुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्य नाम्नि महाकाव्ये श्रीविजयदेवसरि समुत्पन्नचारित्रग्रहणभाववर्णनो द्वितीयः सर्गः ॥२॥