Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 19
________________ श्रीवल्लभोपाध्यायविरचितं [ तृतीयः ततश्च तत्र ते गत्वा नत्वा तं भ्रमरायितम् । विदः स्तत्कराम्भोजे फरमानं मनोहरम् ॥३३॥ ततः प्रीतमनाः सूरिः फरमानमवाचयत् । गन्धारबन्दिरश्रीमत्सर्वसङ्घसमक्षकम् ॥ ३४ ॥ तदा सड्डो हृदानन्दत् श्रुत्वा तल्लिखितं वचः। प्रेष्येभ्यश्च ददौ द्रव्यं वाञ्छितं जीवितोचितम् बुबोधयिषया तस्य सङ्घमापृच्छय सोऽचलत् । साधुभिः सह सच्छूरैर्भूपवद्दिग्जिगीषया ॥३६॥ साधयन् द्विषतो लोकान श्राद्धांश्च प्रतिबोधयन् । स्थापयन् सुकृते स्वीयानन्यांश्चोत्थापयनयात्॥ विहरन् स क्रमेणैवं जिनवत्समवासरत् । आगरानगराभ्यणे फत्तेपुरपुरे बहिः ॥३८॥ एकीभूय ततः सङ्कस्तत्रत्योऽतिमहोत्सवात् । गत्वा चाभिमुखं नत्वा पुरान्तस्तं समानयत् ॥ धर्मोपदेशदानेन ततोऽमृतसदग्गिरा । मूरिस्तांस्तोषयामास दातेव जगतो जनान् ॥ ४०॥ पातिसाहिं तदैवैवमबलफजलोऽवदत् । पातिसाहिप्रधानानां शिरस्सु सुशिरोमणिः ॥ ४१ ॥ य आहूतस्त्वया मूरिः, स साम्पतमिहागतः । पातिसाहिरिति श्रुत्वा, ब्रवीति स्मेति तं मुदा ॥ अन्तरानयतं त्वं प्राक् यथा वन्देय भक्तितः। सिद्धये च सर्वथा सद्यो मदीयोऽयं मनोरथः॥ अबलफजलाख्योऽपि सूरिमाहूय सादरम् । पातिसाहेः सकाशे साक् तदादेशात्समानयत् ॥ तदोपाध्यायशार्दूल-विमलहर्षमुख्यकैः । साधुभिः सहितः मूरिः पातिसाहिं मुदामिलत् ॥ आस्थानमण्डपे स्वीयेऽभ्युपवेश्य च तं गुरुम् । प्रणम्य पात्रलाभूय सोऽभ्यपृच्छदिति स्फुटम्॥ इतीति किं ? तदाहस्वागतं स्वागत स्वीये काये शिष्यादिकस्य च । मूरिराह तदेत्यस्ति तद्धर्मात्तव चेक्षणात् ॥४७ ३७-तत्र गन्धारबन्दिरे; तं श्रीहीरविजयसूरि । तस्य श्रीहारविजयसूरेः कराम्भोज करकमलं तत्कराम्भोजे तस्मिन् । तस्मिन् पातिसाहावकब्बरे । तस्य पातिसाहेरकब्बरस्य बुबोधयिषा धर्मादी बोधयितुमिच्छा तया बुबोधयिषया । किं कुर्वन् द्विषतो लोकान् प्रतिवादिनो जनान् साधयन् ; चः पुनः श्राद्धान् अर्थात् अपरपरशासनधर्मान् सिद्धान्तानुसारेण स्वमुखप्ररूपितधर्म श्रद्धावतो लोकान् प्रतिबोधयन् ज्ञापयन् । पुनः किं कुर्वन् ? स्वीयान् प्रस्तावान् स्वमुखप्ररूपितधर्मकारिणो निजान लोकान् सुकृते धर्म स्थापयन् । पुनः किं० ? चः पुनः अन्यान् प्रमारादिकान् राजादीन माहेश्वरादिधर्मकारिणो वा लोकान् अपात् पापात् द्वीन्द्रियादिपञ्चेन्द्रियजीवव्यापादनलक्षणात् उत्थापयन् प्रायश्चित्तालोचनादिना निवारयन् इत्यर्थः । भूपपक्षे द्विषतो लोकान् वैरिणो जनान् श्राद्धान् अर्थात्स्वसेवाज्ञाकरणे श्रद्धावतः सेवकान् , न्याये प्रवर्तध्वं अन्यायाभिवर्तध्वमिति प्रतिबोधयन् ज्ञापयन् , स्वीयान् आत्मीयान् प्रस्तावात् पुत्रादीन सगोत्रान् सुकृते राज्यसम्बन्धिनि प्रधानकर्मणि पुण्ये वा स्थापयन् , अन्यान पुत्रादिसगोत्रेभ्योऽपरान् प्रामनगरवासिनो जनान् अघात् चौर्याब्रह्मचर्यादिलक्षणात् पापात् उत्यापयन् दण्डादिदानेन निराकुर्वन् इत्यर्थः।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140