________________
श्रीवल्लभोपाध्यायविरचितं
[ तृतीयः ततश्च तत्र ते गत्वा नत्वा तं भ्रमरायितम् । विदः स्तत्कराम्भोजे फरमानं मनोहरम् ॥३३॥ ततः प्रीतमनाः सूरिः फरमानमवाचयत् । गन्धारबन्दिरश्रीमत्सर्वसङ्घसमक्षकम् ॥ ३४ ॥ तदा सड्डो हृदानन्दत् श्रुत्वा तल्लिखितं वचः। प्रेष्येभ्यश्च ददौ द्रव्यं वाञ्छितं जीवितोचितम् बुबोधयिषया तस्य सङ्घमापृच्छय सोऽचलत् । साधुभिः सह सच्छूरैर्भूपवद्दिग्जिगीषया ॥३६॥ साधयन् द्विषतो लोकान श्राद्धांश्च प्रतिबोधयन् । स्थापयन् सुकृते स्वीयानन्यांश्चोत्थापयनयात्॥ विहरन् स क्रमेणैवं जिनवत्समवासरत् । आगरानगराभ्यणे फत्तेपुरपुरे बहिः ॥३८॥ एकीभूय ततः सङ्कस्तत्रत्योऽतिमहोत्सवात् । गत्वा चाभिमुखं नत्वा पुरान्तस्तं समानयत् ॥ धर्मोपदेशदानेन ततोऽमृतसदग्गिरा । मूरिस्तांस्तोषयामास दातेव जगतो जनान् ॥ ४०॥ पातिसाहिं तदैवैवमबलफजलोऽवदत् । पातिसाहिप्रधानानां शिरस्सु सुशिरोमणिः ॥ ४१ ॥ य आहूतस्त्वया मूरिः, स साम्पतमिहागतः । पातिसाहिरिति श्रुत्वा, ब्रवीति स्मेति तं मुदा ॥ अन्तरानयतं त्वं प्राक् यथा वन्देय भक्तितः। सिद्धये च सर्वथा सद्यो मदीयोऽयं मनोरथः॥ अबलफजलाख्योऽपि सूरिमाहूय सादरम् । पातिसाहेः सकाशे साक् तदादेशात्समानयत् ॥ तदोपाध्यायशार्दूल-विमलहर्षमुख्यकैः । साधुभिः सहितः मूरिः पातिसाहिं मुदामिलत् ॥
आस्थानमण्डपे स्वीयेऽभ्युपवेश्य च तं गुरुम् । प्रणम्य पात्रलाभूय सोऽभ्यपृच्छदिति स्फुटम्॥ इतीति किं ? तदाहस्वागतं स्वागत स्वीये काये शिष्यादिकस्य च । मूरिराह तदेत्यस्ति तद्धर्मात्तव चेक्षणात् ॥४७
३७-तत्र गन्धारबन्दिरे; तं श्रीहीरविजयसूरि । तस्य श्रीहारविजयसूरेः कराम्भोज करकमलं तत्कराम्भोजे तस्मिन् । तस्मिन् पातिसाहावकब्बरे । तस्य पातिसाहेरकब्बरस्य बुबोधयिषा धर्मादी बोधयितुमिच्छा तया बुबोधयिषया । किं कुर्वन् द्विषतो लोकान् प्रतिवादिनो जनान् साधयन् ; चः पुनः श्राद्धान् अर्थात् अपरपरशासनधर्मान् सिद्धान्तानुसारेण स्वमुखप्ररूपितधर्म श्रद्धावतो लोकान् प्रतिबोधयन् ज्ञापयन् । पुनः किं कुर्वन् ? स्वीयान् प्रस्तावान् स्वमुखप्ररूपितधर्मकारिणो निजान लोकान् सुकृते धर्म स्थापयन् । पुनः किं० ? चः पुनः अन्यान् प्रमारादिकान् राजादीन माहेश्वरादिधर्मकारिणो वा लोकान् अपात् पापात् द्वीन्द्रियादिपञ्चेन्द्रियजीवव्यापादनलक्षणात् उत्थापयन् प्रायश्चित्तालोचनादिना निवारयन् इत्यर्थः । भूपपक्षे द्विषतो लोकान् वैरिणो जनान् श्राद्धान् अर्थात्स्वसेवाज्ञाकरणे श्रद्धावतः सेवकान् , न्याये प्रवर्तध्वं अन्यायाभिवर्तध्वमिति प्रतिबोधयन् ज्ञापयन् , स्वीयान् आत्मीयान् प्रस्तावात् पुत्रादीन सगोत्रान् सुकृते राज्यसम्बन्धिनि प्रधानकर्मणि पुण्ये वा स्थापयन् , अन्यान पुत्रादिसगोत्रेभ्योऽपरान् प्रामनगरवासिनो जनान् अघात् चौर्याब्रह्मचर्यादिलक्षणात् पापात् उत्यापयन् दण्डादिदानेन निराकुर्वन् इत्यर्थः।