Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 10 * वामध्वजकृता सङ्केत्तटीका 10. स्यादेतत् / उत्तरस्य पूर्वः पूर्वस्योत्तरो मध्यमस्योभयमवधिरस्तु, दर्शनस्य दुरपह्नवत्वात् / त्वयाप्येतदभ्युपगन्तव्यम् / न हि भाववदभावेऽप्युभयावधित्वमस्ति / तद्वद् भावेष्वप्यनुपलभ्यमानैकैककोटिषु स्यात् / न स्यात् अनादित्वात् / / प्रवाहोऽनादिमानेष न विजात्येकशक्तिमान् / तत्त्वे यत्नवता भाव्यमन्वयव्यतिरेकयोः // 6 // __10. न तु सापेक्षत्वेऽपि कादाचित्कत्वमयुक्तम् / न खल्वनन्तातीतसमयसंसर्गिणी सामग्र्युपलभ्यते / ततो याऽनुपलब्धप्राक्कोटिका सैवानादिः / अतो[5] योग्यतया पूर्वकोट्यज्ञानमिति चेत्, न, प्रागभावेऽपि प्राक्कोटिनिषेधानुपपत्तिप्राप्तेः / अतोऽनादिसामग्रीसापेक्षात्मलाभानां सर्वेषां सदातनत्वापत्तौ [12A] कादाचित्कत्वं सापेक्षनिरपेक्षाभ्यां व्यावृत्तं गन्धवत्त्वमिवासाधारणमित्याशयवानाह - स्यादेतदिति / कुलालादिसामग्री, तत्कार्यो घटः, तदर्थक्रियोदकहरणभणां(कधरण-हरण-भरणां)स्त्रयः, तत उत्तरस्यार्थक्रियारूपस्य पूर्वो घटो अवधिः, पूर्वस्य च कुलालादिसामग्रीरूपस्योत्तरो घटः, न तु तत् सर्व[था] कल्प(ल्प)नमनुपलब्धिबाधितत्वात्, मध्यमस्य घटस्य चोभयमवधिनि(नि)रूपकोऽस्तु / कुत इत्याह - दर्शनस्येति / दुरपह्नवत्वात् सर्वलोकसिद्धत्वेनेति शेषः / ननु भवतामेवमस्तु न त्वस्माकमित्यत आह - त्वयाऽपीति / अनङ्गीकारे विपक्षे बाधकाभिप्रायेणाह - न हीति / अन्यथा तत्राप्यभयावधित्वप्रसङ्गः इत्यभिप्रायः / यथा भावस्य प्रागभावः पर्वः प्रध्वंसश्चोत्तरोऽवधिः / ननु प्रागभावप्रध्वंसयोः पूर्वोत्तरावधित्वं कि(किं) नू(नो)त्तरपूर्वावधित्वम् ? तत् कस्य हेतोः ? अनुपलभ्यमानत्वात् पूर्वोत्तरकोट्योः, तथा अनुपलभ्यमानपूर्वकोटिकेष्वस्तु / तथा चानादिसामग्री... कादाचित्कत्वं न सवे(हे)त / प्रकारान्तराभावादित्याशयवानाह - तद्वदिति / तथा चोक्तदोषापत्तिरिति सत्यम् / सामग्रीणामनिश्चितपूर्वकोटीनामनादि... भयेनापूर्वा सामग्रीपरम्परा परिकल्प्यते / प्रागभावे तु पूर्वकोटिकल्पनायां भावोन्मज्जनापत्तिबाधकम् / साधक(क) च न किमप्यस्तीत्यतो नासा... त्कमनादित्वं स्मारयित्वा प्रथमपदेन व्याचष्टे - अनादित्वादिति / एष कार्यकारणप्रवाहस्तत्तत्पूर्वसामग्रीरूपका[12B].... णतामभिमन्यमानो निराकर्तव्य इत्यभिप्रायात् द्वितीयपदमाहन विजातीति / विगतजाति: व्यक्तिमात्रम् / न तद्वान्..... शक्तिमानिति / विलक्षणजातीयेषु या एका शक्तिस्तद्वान् इति बोद्धव्यम् / तदेवं चार्वाकमुखेनैव प्रसङ्गाद् मीमांसामपि निराकृत्य तृणादौ परोक्तव्यभिचारं निराकर्तुमुत्तरार्धेन... इति / सामान्यविशेषाक्रान्तगोचरयोरन्वयव्यतिरेकयोस्तत्त्वे नियतत्वे यत्नवता पुरुषेण भवितव्यमित्यर्थः / ___11. प्रागभावो ह्युत्तरकालावधिरनादिः, एवं भावोऽपि घटादिः स्यात् / अनुपलभ्यमानप्राक्कोटिकघटादिविषयं नेदमनिष्टमिति चेत् न / तावन्मात्रावधिस्वभावत्वे तदहर्वत् पूर्वेधुरपि तमवधीकृत्य तदुत्तरस्य सत्त्वप्रसङ्गात्, अपेक्षणीयान्तराभावात् / एवं पूर्वपूर्वमपि / भावे, तदेव सदातनत्वम् / तदहरेवानेन भवितव्यमित्यस्य स्वभाव इति चेत् न / तस्याप्यह्नः पूर्वन्यायेन पूर्वमपि सत्त्वप्रसङ्गात् / तस्मात् तस्यापि तत्पूर्वकत्वमेवं तत्पूर्वस्यापीत्यनादित्वमेव ज्यायो, न त्वपूर्वानुत्पादे कस्यचिदपूर्वस्य सम्भव इति / तथापि व्यक्त्यपेक्षया नियमोऽस्तु, न जात्यपेक्षयेति चेत्, न, नियतजातीयस्वभावताव्याघातात् / यदि हि यतःकुतश्चिद् भवन्नेव तज्जातीयस्वभावः स्यात्, सर्वस्य सर्वजातीयत्वमेकजातीयत्वं वा स्यात् / एवं तज्जातीयेन यतःकुतश्चिद् भवितव्यमित्यस्य स्वभावः ? तदापि सर्वस्मात् सर्वजातीयमेकजातीयं वा स्यात् /
Loading... Page Navigation 1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210