Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 121 * न्यायकुसुमाञ्जलि स्तबकः 3 (दशायामि)न्द्रियसम्बन्धनिरपेक्षसापेक्षवदनुपलब्धिरप्यलिङ्गदशायां सापेक्षा लिङ्गदशायां तु निरपेक्षा भविष्यतीत्याशङ्कते - यथेति / इन्द्रियसम्बन्धमपेक्षमाणस्य योनिसम्बन्धस्यापरोक्षज्ञानजनकत्वमिति युक्तो दृष्टान्त इत्याशयेन परिहरति - न, कार्येति / ननु दार्टान्तिकेऽपि तथा भविष्यतीत्याह - प्रकृते चेति शेषः / 98. संभाव्यते तावदिति चेत्, संभाव्यताम्, न त्वेतावताऽपि तमाश्रित्य करणनियमनिश्चयः / अज्ञातकरणत्वाच्च / यदज्ञायमानकरणजं ज्ञानं तत्साक्षादिन्द्रियजम्, यथा रूपप्रत्यक्षम्, तथा च 'इह भूतले घटो नास्ति' इति ज्ञानमिति / यथा वा स्मरणमज्ञायमानकरणजं साक्षान्मनोजन्म / कुतस्तर्हि न साक्षात्कार्यनुभवरूपम् ? संस्कारातिरिक्तसन्निकर्षाभावादिति वक्ष्यामः / तथापि भावविषये इयं व्यवस्था, अभावज्ञानं त्वज्ञातकरणत्वेऽपि न साक्षादिन्द्रियजं भविष्यतीति चेत्, न / उत्सर्गस्य बाधकाभावेन सङ्कोचानुपपत्तेः / अन्यथा सर्वव्याप्तीनां भावमात्रविषयत्वप्रसङ्गोऽविशेषात् / तथापि विपक्षे किं बाधकमिति चेत् / नन्विदमेव तावत् / अन्यदप्युच्यमानमाकर्णय / तद् यथा अकारणककार्यप्रसङ्गो रूपाद्युपलब्धीनामपि वानिन्द्रियकरणत्वप्रसङ्गः / न ह्यनुमित्यादिभिरुपलभ्यमानकरणिकाभिश्चक्षुरादिव्यवस्थापनम्, अपि त्वनुपलभ्यमानकरणिकाभिः रूपाद्युपलब्धिभिरेव / यद्यपि साक्षात्कारितापि तत्रैव पर्यवस्यति, तथापि प्रथमतोऽनुपलभ्यमानकरणत्वमेव प्रयोजकं चक्षुरादिकल्पने / न ह्युपलभ्यमाने करणान्तरे साक्षात्कारिणीष्वपि तासु चक्षुराद्यनुपलभ्यमानं कश्चिदकल्पयिष्यत् / अत एव साक्षात्कारित्वेऽपि स्मृतेर्मन एव करणमुपागमन् धीराः / संस्कारस्त्वर्थविशेषप्रत्यासत्तावुपयुज्यते, इन्द्रियाणां प्राप्यकारित्वव्यवस्थापनात् / 98. सम्भाव्यतामिति / कार्यभेदसंभावनया तज्जाती[105B]यनियतस्य कारणत्वमपि सम्भाव्यते न तु निश्चीयत इत्यभिप्रायतो हेतुद्वयं विस्तरतः परोदीरितदोषापाकरणेन समर्च्य तृतीयहेतुमुपन्यस्तमनूद्य वा(व्या)चष्टे - अज्ञातेति / अत्रापीह भूतले घटो नास्तीति विज्ञानमिन्द्रियकरणकमज्ञायमानकरणजानुभवत्वादित्यभिधानं पूर्ववत् समर्थनीयम् / अथवा साक्षादिन्द्रियजमिति साध्यम् / तत्र साक्षादिति मनसा सिद्धसाध्यतानिरासार्थं शङ्कितविपक्षस्य सत्त्वोपपादनेनानैकान्तिकतां निराकरोति कुत इत्यादिना / यदि तु संस्कारापेक्षणान्मनसः स्मृतौ न करणत्वं तदा प्रत्यभिज्ञादौ चक्षुरादेरपि न करणत्वं स्यादिति भावः / ननु भावज्ञानमेवमस्तु, न त्वभावज्ञानमिति विपक्षे बाधकविरहादित्याशयवान् शङ्कते - तथापीति / अस्त्यत्र विपक्षे बाधकमिति परिहरति / उत्सर्गस्येति / उक्तबाधकमपश्यन् पुनः शङ्कते / उक्तबाधकस्मारणेन परिहरति - तथापीति / बाधकान्तरमप्याह - अकारणकेति / अस्ति तावद् रूपाद्युपलब्धिवदभावोपलब्धिः / सा यदि चक्षुरादिकरणिका न भवति तदा अकरण(णि)कैव स्यादन्यस्य करणस्यानुपलम्भादिति वाक्यार्थः / न चानुपलब्धिकरणिका भविष्यतीति वाच्यम्, रूपाद्युपलब्धरवपि(ब्धावपि) चक्षुरादिविलयप्रसङ्गात्, रूपाद्यभावानुपलब्धिस्तत्रापि वज्ञज्जलेयायमानत्वात् प्रतियोगिविशेषादेवा[106A]नुपलब्धीनामपि भेदात् / न चाभावप्रमाणस्य भावेन सम्बन्धो ना(नो)पपद्यत इति वाच्यम्, अभावप्रमाणप्रमेययोरपि तुल्यत्वादित्याशयवानाह - रूपाद्युपलब्धीनामपीति / ननु नाज्ञायमानकरणत्वेन चक्षुरादिव्यवस्थापनं किन्तु रूपाद्युपलम्भसाक्षात्कारित्वेनात आह - यद्यपीति / तत्रैवेन्द्रियकरणत्व एवेत्यर्थः / यदि पुनः साक्षात्कारित्वमेवेन्द्रियकरणसिद्धौ सर्वत्र प्रमाणं स्यात् [तदा] स्मृते[:] मन:करणत्वं नानुमीयेतेत्या 1. भ्रष्टम् /
Loading... Page Navigation 1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210