Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 157
________________ 142 * वामध्वजकृता सृङ्केतटीका बलौ / न हि भवति तरक्षुः प्रतिपक्षो हरिणशावकस्य / दुर्बलैः हीनबलैरित्यर्थः / विरुद्धमात्रस्यासंभवाद् विशेषविरोधमाशङ्क्याह - सिद्धयसिद्धयोरिति / अभिमतविशेषसिद्ध्यसिद्ध्योः सहोपलम्भविरोधिविशेषानुपलम्भाभ्यां विरोधस्य बाधितत्वेन प्रत्येतुमशक्यत्वयोरजले पावमानत्वादित्यर्थः / नासिद्धिरिति / संदिग्धव्यतिरेकित्वाप्रतीतव्याप्तिकत्वोपाधिभिरसिद्धिर्नेति / अत्रोपपत्तिः - अनिबन्धनेति / विपक्षे बाधकोपदर्शनव्याप्तिप्रतीत्युपायोपदर्शनोपाधिविरहव्युत्पादनेन नैव दोषावकाश इति समुदायार्थः / 120. तथाहि - अत्र ये शरीरप्रसङ्गमुद्घाटयन्ति कस्तेषामाशयः ? किमीश्वरं पक्षयित्वा कर्तृत्वाच्छरीरित्वम्, ततः शरीरव्यावृत्तेरकर्तृत्वम् / अथ क्षित्यादिकमेव पक्षयित्वा कार्यत्वाच्छरीरिकर्तृकत्वम् / यद्वा शरीराजन्यत्वादकार्यत्वम्, परव्याप्तिस्तम्भनार्थं विपरीतव्याप्त्युपदर्शनमात्रं वेति / तत्र प्रथमद्वितीययोराश्रयासिद्धिबाधापसिद्धान्तप्रतिज्ञाविरोधः / तृतीये तु व्याप्तौ सत्यां नेदमनिष्टम्, असत्यां तु न प्रसङ्गः / चतुर्थे बाधानैकान्तिकौ / पञ्चमे त्वसमर्थविशेषणत्वम् / षष्ठेऽपि नागृह्यमाणविशेषया व्याप्त्या बाधः / न चागृह्यमाणविशेषव्याप्त्या गृह्यमाणविशेषायाः सत्प्रतिपक्षत्वम् / अस्ति च कार्यत्वव्याप्तेः पक्षधर्मतापरिग्रहो विशेषः / कर्ता शरीरी, विपरीतो न कर्तेति चानयोस्तद्विरहः / 120. श्लोकार्थं व्याख्यातुं परोक्ताभिप्रायं यथासंभवं विकल्पयति / अत्रानुपलब्धिर्हि सत्तया वा बाधिका भा(भ)वेत् ज्ञाता वा / नाद्यः, भिन्नविषयत्वात् / कतुरेवानुपलब्धिरिति तु प्राग्निरस्तम् / वाद्यविवक्षितसमुदायानुपलम्भेन च विरोधाद्यभिधानेऽतिप्रसङ्गात् / ज्ञाता त्वनुपलब्धिलिङ्गान्तरविरोधिनीत्यादि / पक्षादिप्रविभागं पृच्छति - किमीश्वरमिति / ईश्वरस्य धर्मित्वे प्रमाणतोऽप्रतिपत्तिप्रतिपत्तिभ्यामाश्रयासिद्धिबाधौ / ईश्वरविद्वेषिणः परस्य कर्तृत्वाच्छरीरित्वाभ्युपगमेऽपसिद्धान्तः / ईश्वरः शरीरी ईश्वरोऽकर्ता इत्यत्र प्रतिज्ञापदयोविरोधः / ईश्वरपदस्याशरीरिदेवताविधायकत्वात् जगत्कभिधायकत्वादेवेत्यर्थः / शरीरिकर्तृविरहेऽप्यकुरादेः कार्यत्वदर्शनेनानैकान्ति[121A]कत्वमिति हृदि निधायाह - तृतीये त्विति / असत्यामिति कार्यत्वस्य शरीरिकर्तृकत्वे साध्य इत्यर्थः / चतुर्थ इति / सर्वस्य क्षित्यादयेपाद(क्षित्यादेः) पक्षत्वे वो(बा)धः, कस्यचिदपक्षत्वेऽनेकान्त इति बाधानेकान्तावित्यर्थः / पञ्चमे त्वसमर्थविशेषणत्वमजन्यत्वोपाधिविद्यमानत्वे न शरीरविशेषणं समर्थमित्यर्थः / यत्तूक्तं परव्याप्तिस्तम्भनार्थमिति तत्र स्तम्भनमिति बाधः प्रतिरोधो वा विवक्षितः / उभयमपि नोपपद्यते इति / यथाक्रममाशय दर्शयति - षष्ठेऽपीत्यादि / ननु कथं गृह्यमाणविशेषणत्वमित्यत आह - अस्ति चेति / [चो] हि यस्मादर्थः / अनयोस्तद्विरह इति पक्षधर्मताविरह इत्यर्थः / तथाहि - यः कर्ता स शरीरी, योऽशरीरी नासौ कर्ता इत्यत्र कर्ता चायमशरीरी चायमिति पक्षधर्मता नास्ति / 121. ननु यद् बुद्धिमद्धेतुकं तच्छरीरहेतुकमिति नियमे यच्छरीरहेतुकं न भवति तद्बुद्धिमद्धेतुकमपि न भवति इति विपर्ययनियमोऽपि स्यात्, तथा च पक्षधर्मताऽपि लभ्यते इति चेत् / न गगनादेः सपक्षभागस्यापि सम्भवात् केवलव्यतिरेकित्वानुपपत्तेः / अन्वये तु विशेषणासामर्थ्यात् / हेतुव्यावृत्तिमात्रमेव हि तत्र कर्तृव्यावृत्तिव्याप्तम्, न तु शरीररूपहेतुव्यावृत्तिरित्युक्तम् / व्याप्तश्च पक्षधर्म उपयुज्यते, न त्वन्योऽतिप्रसङ्गात् / 1-1. अर्थो न स्पष्टः / पाठः संदिग्धः /

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210