Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 156 * वामध्वजकृता सृङ्केतटीका तरगोचरार्थत्वमात्रमिति चेत्, न / तस्य वेदेऽपि सत्त्वात्, एकस्याप्यर्थस्य शाखाभेदेन बहुभिर्वाक्यैः प्रतिपादनात् / अस्त्वेवं, न तु तेषां मिथो मूलमूलीभाव इति चेत्, न / उक्तोत्तरत्वात् / संख्याविशेषात् खल्वपि / व्यणुकत्र्यणुके तावत् परिमाणवती द्रव्यत्वात् / तच्च परिमाणं कार्यं कार्यगुणत्वात् / न च तस्य परमाणुपरिमाणं द्वयणुकपरिमाणं वा कारणम् / नित्यपरिमाणत्वात्, अणुपरिमाणत्वाच्च, अन्यथा अनाश्रयकार्योत्पत्तिप्रसङ्गात् / द्वयणुकस्य महत्त्वप्रसङ्गाच्च त्र्यणुकवत् अण्वारभ्यत्वाविशेषात् / तत्र कारणबहुत्वेन महत्त्वे अणुपरिमाणस्यानारम्भकत्वस्थितेः / अणुत्वमेव महदारम्भे विशेष इत्यपि न युक्तम् / महतो महदनारम्भप्रसङ्गात् / अणुत्वमहत्त्वयोविरुद्धतया एकजातीयकार्यानारम्भकत्वप्रसङ्गात् / बहुभिरपि परमाणुभिभ्यिामपि द्वयणुकाभ्यामारम्भप्रसङ्गाच्च / / 133. ननु किमिदं पौरुषेयत्वम् ? - किं साक्षात् स्वतन्त्रपुरुषपूर्वका त्वं] परम्परया स्वतन्त्रपुरुषपूर्वकत्वं वा / न तावदाद्यः, परम्परापूर्वेप(पूर्वकेषु) वाक्येषु तदभावेन वाक्यत्वस्य व्यभिचारित्वात् / नापि द्वितीयः, प्राथमिकवाक्ये तदभावे[न] व्यभिचारित्वात् / किं स्वातन्त्र्यं वाक्यानुकूलविवक्षादिमत्त्वम् ? तदा सर्वत्रसम्भवात् सिद्धसाधनम् / अथ सर्वविषयज्ञानादिशालित्वं तदा दृष्टान्ताभाव इत्याशयसहिता(तः) कारीष' दूषणं हृदि निधाय साध्यानुप्रवेशं दर्शयितुं साध्यं विवेचयति स्वतन्त्रेत्यादिना / स्वातन्त्र्यमित्यनेन आदर्शनभूतानुपूर्वीविज्ञानरहितस्य वाच्यवाचकत्वं स्वातन्त्र्यम्, तच्च साक्षात् परम्पराविशेषेणोदासीनसाध्यमिति न व्यभिचार इति त(ता)त्पर्य[म्] इति / स्वातन्त्र्यमित्यथवा आदिभूतं वाक्यं पक्षीक्रियते / आदिभूतं वेदा(द)वाक्यं स्वतन्त्रपुरुषपूर्वकं वाक्यत्वात् / अभिन्नवा[130B]चकविनिर्मितप्रथमवाक्यवत् / इयं च वाक्यपरम्परा आदिवाक्यवती वाक्यपरम्परात्वात् / कालिदासकृतवाक्यपरम्परावत् / किञ्च, प्रमाणान्तरगोचरार्थत्वं किं शब्देतरप्रमाणान्तरगोचरार्थत्वं वा मानान्तरगोचरार्थत्वमात्रं वा मूलभूतमानान्तरगोचरार्थत्वं वा / साध्यव्यापकतया नाद्यस्योपाधित्वमित्याह - मन्वादीति / द्वितीयमाशङ्क्य साधनव्यापकतया नोपाधिरिति परिहरति - प्रयुज्यमानेत्यादिना / तृतीयस्यापि साधनव्यापकतया नोपाधित्वमित्याशय परिहरति - अस्त्वेवमिति / न, उक्तोत्तरत्वात् / प्रणेतृमूलभूतप्रमाणान्तरगोचरार्थत्वस्यासिद्धेरन्यं प्रत्यनैकान्तिकत्वादित्यनेन ग्रन्थेनेत्यर्थः / सङ्ख्याविशेषाच्चेति / व्याख्यातुमुपक्रमते व्यगुणकत्र्यणुके तावदिति / व्यणुकपरिमाणमादाय विचारयति - न च तस्येति / / द्वयणुकपरिमाणस्येत्यर्थः / नित्यपरिमाणत्वादिति आकाशपरिमाणवदिति शेषः / यदि च वैयात्वात् परो ब्रूयात् परममहत्परिमाणमेव नास्तीत्यतोऽपरितोषाद् द्वितीयहेतुमाह - अणुपरिमाणत्वाद् मनःपरिमाणवदिति / स्वसिद्धेनोभयसिद्धेनैकपरमाणुपरिमाणवदिति द्रष्टव्यम् / ननु द्रव्यानारम्भकपरिमाणत्वप्रयुक्तं हि गगनपरिमाणस्यानारम्भकत्वमेवं मन:परिणाणस्यापि / या(य)दि नित्यपरिमाणत्वेनानारम्भकत्वमणुपरिमाणत्वेन वा तदा नित्यसङ्ख्यात्वेन च सङ्ख्याया अप्यनारम्भकत्वं सङ्ख्यात्वमुपाधिस्तत्रापि द्रव्यानारम्भकपरिमाणत्वे उपाधिरिति समानम् / मैवम् अनारम्भकपरिमाणस्यापि व्यणुकपरिमाणस्य परिमाणानारम्भकत्वदर्शनेन साध्याव्यापकत्वेन अनुपाधित्वात् / तथाहि [131A] [णु]परिमाणं तावन्न त्र्यणुकपरिमाणस्यासमवायिकारणम्, तथा व्यणुकपरिमाणस्यापि, महज्जातीयताप्रसङ्गात् / अणुपरिमाणादनारभ्यमहज्जातीयत्वोपलम्भा[द्] व्यणुकपरिमाणमपि तज्जातीयं स्यात् / तस्मादेतद्बाधक[व]शेन न द्व्यणुकपरिमाणं परिमाणान्त[रा]रम्भकम् / अतो ना(नो)क्तमुपाधिरित्याशयवान् 1. अर्थो न स्पष्टः /
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210