Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 165 * न्यायकुसुमाञ्जलि स्तबकः 5 इति / पाचको हि धात्वर्थः तस्यौदनफलानुकूलत्वे 'देवदत्तः काष्ठेरोदनं पचति' इतिवद् ओदनं पाकेन पचतीति प्रयोगप्रत्ययप्रसङ्गात् / न चैव[म]स्त्विति वाच्यम् / किं करोति / पचति पाकं करोतीति सर्वजनसिद्धत्वादित्याशयवान् समाधत्ते - भवेदप्येतदिति / सुबोधमन्यत् / कस्यचित् फलानुकूलतामाशङ्क्य परिहरति - स्यादेतदित्यादिना / अत एवेति / चिकीर्षाप्रभवो हि प्रयत्नः स्वसाध्यमनागतं भावयति / तत्र फलापेक्षया तस्य पूर्वावस्था सा यत्नः कृतिः चिति: वाभिधीयते / 142. अत्रोच्यते - कृताकृतविभागेन कर्तृरूपव्यवस्थया / यत्न एव कृतिः पूर्वा परस्मिन् सैव भावना // 9 // यत्नपूर्वकत्वं हि प्रतिसन्धाय घटादौ कृत इति व्यवहारात् / हेतुसत्त्वप्रतिसन्धानेऽपि यत्नपूर्वकत्वप्रतिसन्धानविधुराणामङ्करादौ तदव्यवहारात् करोत्यर्थो यत्न एव तावदवसीयते / अन्यथा हि यत्किञ्चिदनुकूलपूर्वकत्वाविशेषाद् घटादयः कृताः, न कृतास्त्वकुरादय इति कुतो व्यवहारनियमः / तेन च सर्वमाख्यातपदं विव्रियते इति सर्वत्र स एवार्थ इति निर्णयः / तथा च समुदिते प्रवृत्तं पदं तदेकदेशेऽपि प्रयुज्यते, विशुद्धिमात्रं पुरस्कृत्य ब्राह्मणे श्रोत्रियपदवत् / अन्यथाऽपि मध्यमोत्तमपुरुषगामिनः प्रत्ययाः, प्रथमे पुरुषे जानाति इच्छति प्रयतते अध्यवस्यति शेते संशेते इत्यादयश्च गौणार्था एवाचेतनेषु / न च वृत्त्यन्तरेणापि प्रयोगसम्भवे शक्तिकल्पना युक्ता / अन्यायश्चानेकार्थत्वमिति स्थितेः / _142. सैव कृतिरेव भावना किंविशिष्टा, पूर्वापरीभूता पूर्वापरीभूतत्वे सतीत्यर्थः / न चैवंभूतो यत्नपदस्यार्थः / ततश्च यत्न एव भावना, न तु व्यापार इत्यर्थः / करोत्यर्थो यत्न एवेति कुत इत्यत उक्तं घटाद्यङ्करादीनां हे[तु] मत्त्वाविशेषेऽपि कृताकृतव्यवहारनियमेन / अत्र च युक्त्यन्तरमाह - कर्तृरूपेति / नन्वेवमपि पूर्वापरी[136B]भूतत्वं यत्नत्वमनुकूलत्वं चेति त्रितयमेवाऽऽख्यातवाच्यम्, त्रितयाभावे च कथमाख्यातपदं प्रवर्तत इत्याशङ्क्याह - तथा चेति / यत्नस्य पूर्वापरीभूतत्वानुकूलत्वे प्रवृत्तमाख्यातम्, जातं फलानुकूलत्वं तावत् किं धात्वर्थस्य, 'रथो गच्छति' इत्यादौ प्रयुज्यते ? लोके भाक्तः प्रयोग इति तात्पर्यम् / समुदिते प्रवृत्तस्य पदस्यैकदेशेऽपि प्रवृत्तिरित्यत्र निदर्शनमाह - विशुद्धमात्रमिति। उक्तं च - जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते / विद्यया याति विप्रत्वं श्रोत्रियस्त्रिभिरेव च // अतो जन्म-संस्कार-विद्यासु तिसृषु श्रोत्रियपदं प्रवर्तत इत्युक्तम् / तथा च क्वचित् ब्राह्मणमात्रे प्रयोगो भाक्त इत्यर्थः / अपि च अचेतनेष्वपि सर्वत्र गौणार्थत्वं मा भूदित्याभिमानिको यत्र वाच्यताविशेषस्तच्चोभयथाऽप्यर्जनीयमायातमित्याह - अन्यथेति / यथा देवदत्त-यज्ञदत्तयोः परस्परयुद्धे 'त्वं यदि शरान् मुञ्चस्यहमपि शरान् मुञ्चामि' इतिवच्चित्रस्थयोरपि परस्परसम्मुखयुद्धे 'त्वं यदि शरान् मुञ्चस्यहमपि शरान् मुञ्चामि' इति प्रत्ययप्रयोगयोस्तुल्यत्वादेकत्रमुख्यत्वमन्यत्र गौणत्वम् / तथा च देवदत्तो जानाति इच्छति यतते अध्यवस्यति शेते संशेते इति लोके प्रत्ययप्रयोगौ तथा चित्रस्थयोरपि(स्था अपि) जानन्ति इच्छन्ति यतन्ते अध्यवस्यन्ति शेरते संशेरत इत्यपि प्रत्ययप्रयोगौ तुल्याविति / एवं तावद् ‘गङ्गायां जलं' '[गङ्गयां] घोषः' वन्मुख्यगौणार्थत्वव्यवस्थितेः सर्वजनसिद्धत्वेन दुष्परिहरत्वादित्युक्तम् - संप्रत्यक्षादिशब्दवदनेकार्था एव जानातीत्यादयः शब्दाः
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210