Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 189
________________ 174 * वामध्वजकृता सृङ्केतटीका त्वत्रापूर्वत्वप्रतीतिः / स्यादेतत्, कार्यत्वमुपलक्षणीकृत्य तावदेषा लिङ् प्रवृत्ता, तदुपलक्षितश्च यागो वा यत्नो वाऽन्यो वा शब्देतरप्रमाणगोचरो नाधिकारिविशेषणस्वर्गसाधनसमर्थः / न चाकाम्यफले कामी नियोक्तुं शक्यते / ततोऽन्यदेवालौकिकं किञ्चिदनेनोपलक्ष्यते, यो लिङादिप्रवृत्तिगोचर इति किमनुपपन्नमिति चेत् / उपलक्षणं हि स्मरणमनुमानं वा / उभयमप्यनवगतसम्बन्धेनाशक्यम् / 151. तदेवं कर्तृधर्मो विधि[रिति पक्षं] विस्तरतो निराकृत्य कर्मपक्षं निराकर्तुमुपन्यस्यति - अस्तु तीति / निराकरोति अतिप्रसङ्गादित्यादिना / अथापूर्वस्य कर्मस्य [142B] अपूर्वस्य शब्देतरप्रमाणागोचरत्वं व्यवस्थितम्, धर्मे चोदनैव प्रमाणमित्यभ्युपगमात् / इदानीं लिङ्गो व्युत्पत्तिमपूर्वेऽभ्युपगमा[त्] कुतो भवतामपूर्वे प्रमाणान्तरं प्रवृत्तमित्यपूर्वत्वहानिरित्यापतितमित्याह - तत्त्वहानित इति / न तु कार्यत्वे ननुपाधिना(ननु कार्यत्वेन उपाधिना) उपनीतेऽपूर्वे कार्यत्वेनैव निमित्तेन प्रवर्तिष्यते लिङित्याह - तदलाभादिति कार्यापूर्व(वा)लाभादित्यर्थः / प्र[माणा]न्तरप्रणी(ती)ते हि वस्तुनि केनचिन्निमित्तेन किञ्चित्पदं प्रवर्तते, न त्वप्रतीते इति भावः / कर्म हीति / क्रियत इति व्युत्पत्त्या सर्वत्र कर्मपदं प्रवर्तते इति बोद्धव्यम् / तदलाभान्न कार्यतेति / निराकरणीयमाशङ्क्य उत्थाप्य निराकरोति - न च गन्धवत्त्वेनेति / स्यादेतदिति / तथाहि - वृद्धव्यवहाराद् व्युत्पद्यमानो बालः स्वात्मन्यवगतमेव प्रवृत्तिहेतुं लिङ्गार्थमाश्रय[मवधारयति], न क्रियामात्रावगमात्, नापि फलमात्रावगमात्, नापि फलसाधनत्वावगमात्, किन्तु कार्यमात्रप्रत्ययात् प्रवृत्तः / न खल्वन्तत: स्तनपानादिकामपि क्रियां कार्यतया यदि स्तनेनावगतवान(न्) तावत् तस्यामपि प्रवृत्तः ततौ वा यो(तत्रोपायो) द्वारभेदेन लिङ्गादेवान्विताभिधानसिद्धौ योग्यं वान्वीयत इति कार्यान्विताभिधानसिद्धे चोदनासिद्धे चोदनाभिधानात् तत्रैव कार्यमर्थप्रतिपादकत एव प्रामाण्ये व्यवस्थां नीतेऽथ स्वसिद्धान्ते चावधृते नियोज्यविशेषणतया कार्ये विदिते स्वर्गादिफले च नियोज्यविशेषणे निर्माते काम्यमानफलोत्पादनसमर्थनियोज्यवि[143A]शिष्टकार्यं वैदिकैलिङदिप्रत्ययैरभिधेयीक्रियते / तथाऽभिधेयीकृतो न यागः शक्य: कल्पयितुं तस्याचिरस्थिरत्वात्, विपाककालानवस्थानात्, अव्यवहितसाध्यलक्षणसाधनान्वयायोगात्, यागस्यैव नित्यत्वकल्पनायां मानान्तरविरोधात् / यथोक्तं स्वर्गयोः कार्यत्वमुत्सृज्य तन्मध्यवर्तिनोऽपूर्वस्यैव सकलास्तिकसिद्धान्तसिद्धस्य कार्यत्वं वेदो बोधयति / अन्यथा स्वर्गोत्पादनसमर्थलिङ्गादिभिरभि--- / तदा तत्र क(किं) स्यात् / तस्य स्वयं दुःखरूपतया स्वविषयापेक्षावत् प्रवृत्तिसिद्धये गर्भवासोपकारन्यायेन स्ववृद्धि(द्धिः) स्वर्गमङ्गीकरोति / तदेवं सकलं मनसि निधायोक्तं गुरुभिः / आरम्भविषयो हि कर्मसञ्चाराभा[वो] विध्यर्थः / स्वर्गकामस्य चासाविति / आरम्भस्वर्ग इति भ्रम इत्य अन्ततःस्तनपानादितृप्तिकार्येऽपि सा क्रिया / यावन्मात्रेण साध्यते तावतैव प्रवर्तते / / तत्र लोकानुसारेण क्रिया कार्येति यद्यपि / तथापि वेदेऽप्येवं तु सिद्धान्]तेऽवस्थिते सति / / स्वर्गकामादयः सर्वे नियोज्यत्वेन संस्थिताः / /

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210