Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 163 * न्यायकुसुमाञ्जलि स्तबकः 5 _139. विधिरिति / यद्विज्ञानं चिकीर्षाप्रसूते(तं) स विधिस्त[ज्]ज्ञापको वा / नियोज्यानामस्मदादीनां प्रवृत्तौ यः पुरुषस्याभिप्रायः तेन हि प्रवृत्तेरिष्टाभ्युपायता प्रतीयते, दर्शयिष्यते चैतदने / चिकीर्षाजनकज्ञान(प)कज्ञानविषयस्य क्रियमाणसाधनत्वादेर्योऽनुमापकः सोऽपि विधिरित्यर्थः / प्रवर्तना प्रवृत्तौ प्रयोजकव्यापारनियुक्तिरपि सैव / एतत् सर्वमितरवादिसम्मतपक्ष[134B]निरसनमन्तरेण व्यवतिष्ठत इति सम्भवितपक्षं निराकर्तुमुपन्यस्यति - स हि कर्तृधर्मो वेत्यादि / प्रथमद्वितीयतृतीयपक्षनिरसने चतुर्थपक्षव्यवस्थितौ पुरुषाभिप्रायसिद्धावभिप्रायाधारपुरुषविशेष ईश्वरः सेत्स्यतीति दूरे निर्णयो भविष्यतीति विकल्पतात्पर्य[म्] / अनुपलब्धलिङ्गाम(द)पीच्छोत्पद्यते, न प्रवृत्तिरित्यतिप्रसङ्गात् / ज्ञानस्य च विषयोपहारद्वारा प्रवर्तकत्वे विषय एव विधिरिति समुदायार्थः / एतच्च सर्वं विस्तरेण स्पष्टी भवितान्यामन्दबुद्धिभिरभियुक्तैर्विविच्यते / 140. न प्रथमः / ___इष्टहानेरनिष्टाप्तेरप्रवृत्तेविरोधतः / स हि न स्पन्द एव, आत्मानमनुपश्येदित्याद्यव्याप्तेः / ग्रामं गच्छतीत्यादावतिव्याप्तेश्च / नापि तत्कारणं प्रयत्नः / तस्य सर्वाख्यातसाधारणत्वात् / ननु न सर्वत्र प्रयत्न एव प्रत्ययार्थः / करोतीत्यादौ प्रकृत्यर्थातिरेकिणस्तस्याभावात् / संख्यामात्राभिधानेन प्रत्ययस्य चरितार्थत्वात् / ततो लिङ्गादिवाच्य पन्नस्य प्रत्ययार्थत्वान्न तुल्यत्वमिति चेत् / न, तथापि तुल्यत्वात् / न चैकस्य तद्वाचकत्वेऽन्यस्य तद्विपर्यय आपद्येत / एको द्वौ बहव एषिषतीत्यादौ व्यभिचारात् / तत्र द्वितीयसंख्येच्छादिकल्पने करोति प्रयतते इत्यादावपि तथा स्यात् / प्रत्येकमन्यत्र सामर्थ्यावधृतौ सम्भेदे तथा कल्पनायास्तुल्यत्वात् / रथो गच्छतीत्यादौ तदसम्भवे का गतिरिति चेत् / ____140. कर्केति प्रयोज्यवृद्धम(मु)पदिशति / कर्तृधर्म इति कर्तुरनुष्ठातुर्धर्मः किं स्पन्दो वा तत्कारणं प्रयत्नो वा तत्कारणमिच्छा वा तत्कारणं ज्ञानं वेति विकल्पाः / तत्र प्रथमे इष्टहानेरनिष्टाप्तेरिति बाधकम् / द्वितीयेऽप्रवृत्तेरिति, विरोधत इति सङ्करादिति च / न हि यत्नो यत्नस्य हेतुर्यत्नप्रतीतेर्वा / यत्नस्य कारणमपि त्विच्छेति / यत्नस्य यत्नहेतुत्वे स्वात्मनि वृत्तिविरोध इति / सर्वाख्यातसाधारणत्वेन सङ्कर इति / तृतीये असत्त्वादित्युत्तरः, न च लिशवणकाले सा सती / [135A] उत्तरदृष्टे उपान्त्यपङ्क्तौ त्रुटिर्कीद्वय्या लिडेव तां जनयतीत्यादिना प्रतिपत्तव्यम् / लिङेव तां जनयतीत्याशय प्रत्ययत्यागादित्युत्तरम् / स हीत्यादिना अतिव्याप्तेरित्यन्तेन इष्टहानेरनिष्टाप्तेरिति विवृतम् / सर्वाख्यातसाधारण्यादित्यनेन। सङ्करादिति विपञ्चितम् / आख्यातमात्रेण न प्रयत्नोऽभिधीयते किन्तु ली(लि)ङादिवाच्यः प्रयल इति स(म)तमाशङ्कते - नन्विति / ननु प्रकृत्यर्थातिरेकिणः प्रत्ययार्थस्याभावे प्रत्ययप्रयोगवैयर्थ्यमित्यत्र आह - सङ्ख्येति / यदि प्रकृत्यातिरिक्तप्रत्ययाभावात् सङ्ख्यामात्र अभिधानमन्यत्र तदा प्रकृतेऽपि प्रकृत्यातिरिक्तप्रयत्नाभावात् सङ्ख्यामात्राभिधानमस्त्वित्याशयवान् परिहरति - न, कुर्यादित्यत्रेति / करोत्यर्थो यत्नमात्रम् / प्रत्ययार्थस्तु तस्य देवदत्तादिसम्बन्धितेति / विशे[ष]माशङ्क्य तुल्यत्वेन समाधत्ते - प्रयत्नमात्रस्येति / किंचकत्वे (किञ्च प्रकृतेर्धात्वर्थवाचकत्वे) प्रत्ययस्यापि तद्वाचकत्वमविरोधादन्यत्र प्रकृतिप्रत्यययोस्तथादर्शनाच्चेति दर्शयति - न चैकस्येति / एकस्य
Loading... Page Navigation 1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210