Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 182
________________ 167 * न्यायकुसुमाञ्जलि स्तबकः 5 144. न, - भावनैव हि यत्नात्मा सर्वत्राख्यातगोचरः / तया विवरणध्रौव्यादाक्षेपानुपपत्तितः // 10 // केन हि तदाक्षिप्येत / न तावदनुकूलत्वमात्रेण, तस्य प्रयत्नत्वेनाव्यापनात् / न हि यत्नत्वैकार्थसमवाय्येवानुकूलत्वम् / अत एव न संख्यया, तस्याः संख्येयमात्रपर्यवसायित्वात् / कर्डेति चेत् / न / द्रव्यमात्रस्याकर्तृत्वात् / व्यापारवतश्चाभिधाने व्यापाराभिधानस्यावश्याभ्युपगमनीयत्वात् / नापि धात्वर्थेन तदाक्षेपः / विद्यते इत्यादौ तदसम्भवात् / न ह्यत्र धात्वर्थो भावनाऽपेक्षी, सत्ताया नित्यत्वात् / तत्र न भविष्यतीति चेत् / न / पूर्वापरीभूतभावनाऽनुभवस्याविशेषात् / भावनोपरागेण ह्यतथाभूतोऽप्यर्थस्तथा भासते इति / न च पदान्तरलब्धया भावनयाऽनुकूलतायाः प्रत्ययार्थस्यान्वयः / तदसम्भवात् / न खलु प्रकृत्यैव साऽभिधीयते / धातूनां क्रियाफलमात्राभिधायित्वात् / अन्यथा पाक इत्यादावपि भावनाऽनुभवप्रसङ्गात् / नापि चैत्र इत्यादिना पदान्तरेण / प्रकृतिप्रत्यययोरुभयोरप्यकारकार्थत्वात् / ओदनमित्यादेः कारकपदत्वात् तस्य च क्रियोपहितत्वात् तेनाभिधानमाक्षेपो वा, कथमन्यथौदनमित्युक्ते किं भुङ्क्ते पचति वेति विशेषाकाङ्क्षति चेत्, न / पचतीत्युक्ते किमोदनं तेमनं वेति विशेषाङ्क्षादर्शनात् / सा चाक्षेपाभिधानयोरन्यतरमन्तरेण न स्यात् / तस्यां दशायां न चेदाक्षेपो नूनमभिधानमेवेति / स्यादेतत्, अभिधीयतां तर्हि कर्ताऽपि / तदनभिधाने हि सङ्ख्येयमात्रमाक्षिप्य सङ्ख्या कथं कर्तारमन्वियात्, न तु कर्मादिकमपि / शाकसूपौ पचति शाकसूपौदनान् पचतीत्यादौ विरोधनिरस्ता सङ्ख्या चैत्र इति कर्तारमविरुद्धमनुगच्छतीति चेत् / चैत्र ओदनं पचतीत्यत्र का गतिः / ___144. भवेदप्येत[दे]वं यद्यन्यतः प्रयत्नलाभो भवेन्न त्वस्ति [137B] प्रकारान्तरेणानुपपत्तेरित्याशयवान् समाधिमुपक्रमते - भावनैवेति / तथा विवरणध्रौव्यादित्यस्य प्रागेव [वि]वृतार्थत्वादाक्षेपानुपपत्तित इत्येतद्विवृणोति / ते(?के)न हीति / तदिति प्रयत्नत्वमित्यर्थः / करॆति आख्यातार्थेनेति शेषः / अत्र कर्केति द्रव्यमात्रमभिप्रेतं व्यापारवद्वा / नाद्यः, तन्मात्रस्याकर्तृत्वादित्यकारकत्वादित्यर्थः / यथोक्तं न्यायवार्तिककृता 'न द्रव्यमानं कारकं नापि कर्तृव्यापारमात्रम्' इत्यादि / द्वितीये दूषणमाह - व्यापारवतश्चेति / ननु सत्ताया नित्यत्वेन पूर्वापरीभावो विरुध्यत इत्यत आह - भावनोपरागेणेति / ननु मा भूदाक्षेपो यदा पदान्तरेण भावनाऽभिधीयते अनुकूलता चाख्यातेन, तथा च भावना आक्षेपमन्तरेणापि प्रकृतिप्रत्ययार्थयोरिव परस्परमथ(र्थ)योभ(भ)विष्यतीत्याशयवानाशङ्कते - न च पदान्तरेति / तदसम्भवादिति / यत्नात्मकभावनाभिधायकपदान्तरासम्भवादित्यर्थः / एतदेव विशदीकर्तुं विचारमत्रारम्भते - न खल्विति / नापि चैत्र इति / प्रकृतिस्तावदत्र शुद्धप्रातिपदिकार्था, प्रथमाविभक्तिरपि प्रातिपदिकार्थवचनमात्र इति पाणिनिस्मृतेः / कारकार्थस्य तु भावनार्थत्वं सम्भवेत् / यस्य व्यापारवत [138A] एव कारकत्वान्नान्यस्येत्यर्थः / तस्य चेति कथमन्यथेति / यदि कारकपदेनौदन[म्] इत्यनेन क्रि[या]सामान्यस्याक्षेपतो वाऽभिधानतो वा न प्रतिपादनं तदा क्रियासामान्यस्यानधिगतार्थत्वात कथं तद्विशेषजिज्ञासा स्यात् / तस्माद विशेषाकाक्षायाः सामान्यानुभवपूर्वकत्वाविनाभावाद ओदनमिति कर्मपदेन क्रियासामान्यमभिधीयत इत्यर्थः / विशेषाकाङ्क्षा हि प्रतिपत्तुर्जिज्ञासा / सा चाविनाभाविन्यर्थविशेषे भवति / यथा दृष्टे रसविशेषे जिज्ञासेत्युक्ता(क्तम्) / न चैतदेव क्रियापदस्याप्यत एव कर्मसामान्या

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210