Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 166 * वामध्वजकृता सृङ्केतटीका सन्त्विति मन्यमानमपि प्रयोगवैधये॒णैकत्र वाच[क]त्वमन्यत्र गौणवृत्त्या [प्र]योगोपपत्तावपि वाचकत्वं [137A] कल्पते / गौणव्यवहारापलापप्रसङ्ग इत्यनिष्टोपदर्शनेन बोधयति - न चेति / 143. अत एवानुभवोऽपि - यावदुक्तं भवति पाकानुकूलवर्तमानप्रयत्नवांस्तावदुक्तं भवति पचतीति / एवं तथाभूतातिवृत्तप्रयत्नोऽपाक्षीदिति / एवं तथाभूतभाविप्रयत्नः पक्ष्यतीति / न तु पचतीति पाकानुकूलयत्किञ्चिद्वानिति / अन्यथाऽतिथावपि परिश्रमशयाने पचतीति प्रत्ययप्रसङ्गात् / अपि च कर्तृव्यापार एव कुञर्थश्चेतनश्च कर्ता, अन्यथा तद्वयवस्थाऽनुपपत्तेः / न ह्यभिधीयमानव्यापारवत्त्वं कर्तृत्वम्, अनभिधानदशायां कुर्वतोऽप्यकर्तृत्वप्रसङ्गात् / नाप्याख्यातप्रत्ययाभिधानयोग्यव्यापारशालित्वं कर्तृत्वम्, योग्यताया एवानिरूपणात् / फलानुगुणमात्रस्य सर्वकारकव्यापारसाधारणत्वात् / नापि विवक्षातो नियमः अविवक्षादशायामनियमप्रसङ्गात् / स्वव्यापारे नेदमनिष्टमिति चेत् / एवं तर्हि 'स्वव्यापारे च कर्तृत्वं सर्वत्रैवास्ति कारके' इति न्यायेन करणादिविलोपप्रसङ्गः / न स्वव्यापारापेक्षया करणादिव्यवहारः, किन्तु प्रधानक्रियापेक्षया / अस्ति हि काञ्चित् क्रियामद्दिश्य प्रवर्तमानानां कारकाणामवान्तरव्यापारयोगः, न त्ववान्तरव्यापारार्थमेव तेषां प्रवृत्तिरिति चेत् / तर्हि तदपेक्षयैव कर्तृकर्मादिव्यवहारविशेषनियमे किं कारणमिति चिन्त्यताम् / स्वातन्त्र्यादीति चेत् / ननु तदेव किमन्यत् प्रयत्नादिसमवायादिति विविच्याभिधीयतामिति / तस्मात् सर्वत्र समानव्यापार एवाख्यातार्थः / तथापि फलानुगुणतैवास्तु प्रत्ययस्य प्रवृत्तिनिमित्तम्, प्रयत्नस्त्वाक्षेपतो लप्स्यते इति चेत् / ___143. उक्तमर्थमनुभवमुखेन पुरस्करोति - अत एवेति / [ परि ]श्रमशयान इति / एवं कृताकृतविभागेनेति हेतुं व्याख्याय कर्तृरूपव्यवस्थयेति व्याख्यातुमुपक्रमते - अपि चेति / तद्वयवस्थेति / लक्षणान्तरसंभवादिति भावः / नन्वस्ति लक्षणं धातुप्रत्ययाभ्यां प्राधान्येनाभिधीयमानव्यापारत्वं, यदुक्तम् - यस्य व्यापारं प्राधान्ये[न] धातुराख्यातं प्रत्ययो वाऽभिधत्ते स चेतनोऽचेतनो वा स्वतन्त्रः कर्तेत्याशक्य निराकरोति - न हीति / अत्र हि तथाभूताभिसम्बन्धो वा विवक्षितस्तं प्रति योग्यता वा ? नाद्य इत्याह - न ह्यभिधीयमानेति। द्वितीयमाशलय निराचष्टे नापीत्यादिना / फलानुगुणत्वं योग्यत्वमिति प्रासङ्गिकत्वान्नोपादेयमित्याह - फलेति / 'विवक्षातः कारकाणि भवन्ति' इति वैयाकरणसूत्रसिद्धमर्थमुत्थाप्य निराकरोति - नापीति / फलानुमेयगुणतया वक्तुमिष्टं यत् तत् कारकं कर्तृ नेतरदित्यत्र यद् यदा फलानुगणतया वक्तुमिष्यते तत् तदा कर्तृ[कार]कं भवति, यदा तु वक्तुमिच्छा न भवति तदा न, कर्तृत्वे वा सर्वकर्तृ प्राप्तमित्यर्थः / अत्र शङ्कते - स्वव्यापारेति / समाधत्ते - एवं तीति / प्रधानक्रियोद्देशेन प्रवृत्तिरपि न कर्तृव्यवहारबीजम्, सर्वकारकाणां तथात्वप्रसङ्गस्य दुर्वारत्वात् / न च वाच्यम् आरादुपकारकत्वात् / सन्निपत्योपकारकं करणम्, करणव्यापारोपकारकं कर्मेत्यादि / कर्तुरपि करणवत् सन्निपत्योपकारकत्वाविशेषः / पूर्वं धात्वर्थस्य फलानुकूलत्वमाशङ्क्य परिहतं संप्रति लातोतते' यद्विशेषात् तद्व्यापरस्य व्यवहारपर्यन्तमनुवृत्तेः / तस्मादन्यस्य कर्तव्यं(र्तृव्य)वस्थितस्यासम्भवात् कर्तृव्यवहारनिमित्तं प्रयत्नादिसमवाय एव प्रष्टव्य इत्याह - प्रयत्नादीति / न त्वनन्यलभ्यः शब्दार्थः इति मतिः। प्रकारान्तरलभ्यस्य प्रयत्नस्य न प्रत्ययवाच्यतेत्याशयवान् शङ्कते - तथापीति / 1. भ्रष्टः पाठः /
Loading... Page Navigation 1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210