SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 166 * वामध्वजकृता सृङ्केतटीका सन्त्विति मन्यमानमपि प्रयोगवैधये॒णैकत्र वाच[क]त्वमन्यत्र गौणवृत्त्या [प्र]योगोपपत्तावपि वाचकत्वं [137A] कल्पते / गौणव्यवहारापलापप्रसङ्ग इत्यनिष्टोपदर्शनेन बोधयति - न चेति / 143. अत एवानुभवोऽपि - यावदुक्तं भवति पाकानुकूलवर्तमानप्रयत्नवांस्तावदुक्तं भवति पचतीति / एवं तथाभूतातिवृत्तप्रयत्नोऽपाक्षीदिति / एवं तथाभूतभाविप्रयत्नः पक्ष्यतीति / न तु पचतीति पाकानुकूलयत्किञ्चिद्वानिति / अन्यथाऽतिथावपि परिश्रमशयाने पचतीति प्रत्ययप्रसङ्गात् / अपि च कर्तृव्यापार एव कुञर्थश्चेतनश्च कर्ता, अन्यथा तद्वयवस्थाऽनुपपत्तेः / न ह्यभिधीयमानव्यापारवत्त्वं कर्तृत्वम्, अनभिधानदशायां कुर्वतोऽप्यकर्तृत्वप्रसङ्गात् / नाप्याख्यातप्रत्ययाभिधानयोग्यव्यापारशालित्वं कर्तृत्वम्, योग्यताया एवानिरूपणात् / फलानुगुणमात्रस्य सर्वकारकव्यापारसाधारणत्वात् / नापि विवक्षातो नियमः अविवक्षादशायामनियमप्रसङ्गात् / स्वव्यापारे नेदमनिष्टमिति चेत् / एवं तर्हि 'स्वव्यापारे च कर्तृत्वं सर्वत्रैवास्ति कारके' इति न्यायेन करणादिविलोपप्रसङ्गः / न स्वव्यापारापेक्षया करणादिव्यवहारः, किन्तु प्रधानक्रियापेक्षया / अस्ति हि काञ्चित् क्रियामद्दिश्य प्रवर्तमानानां कारकाणामवान्तरव्यापारयोगः, न त्ववान्तरव्यापारार्थमेव तेषां प्रवृत्तिरिति चेत् / तर्हि तदपेक्षयैव कर्तृकर्मादिव्यवहारविशेषनियमे किं कारणमिति चिन्त्यताम् / स्वातन्त्र्यादीति चेत् / ननु तदेव किमन्यत् प्रयत्नादिसमवायादिति विविच्याभिधीयतामिति / तस्मात् सर्वत्र समानव्यापार एवाख्यातार्थः / तथापि फलानुगुणतैवास्तु प्रत्ययस्य प्रवृत्तिनिमित्तम्, प्रयत्नस्त्वाक्षेपतो लप्स्यते इति चेत् / ___143. उक्तमर्थमनुभवमुखेन पुरस्करोति - अत एवेति / [ परि ]श्रमशयान इति / एवं कृताकृतविभागेनेति हेतुं व्याख्याय कर्तृरूपव्यवस्थयेति व्याख्यातुमुपक्रमते - अपि चेति / तद्वयवस्थेति / लक्षणान्तरसंभवादिति भावः / नन्वस्ति लक्षणं धातुप्रत्ययाभ्यां प्राधान्येनाभिधीयमानव्यापारत्वं, यदुक्तम् - यस्य व्यापारं प्राधान्ये[न] धातुराख्यातं प्रत्ययो वाऽभिधत्ते स चेतनोऽचेतनो वा स्वतन्त्रः कर्तेत्याशक्य निराकरोति - न हीति / अत्र हि तथाभूताभिसम्बन्धो वा विवक्षितस्तं प्रति योग्यता वा ? नाद्य इत्याह - न ह्यभिधीयमानेति। द्वितीयमाशलय निराचष्टे नापीत्यादिना / फलानुगुणत्वं योग्यत्वमिति प्रासङ्गिकत्वान्नोपादेयमित्याह - फलेति / 'विवक्षातः कारकाणि भवन्ति' इति वैयाकरणसूत्रसिद्धमर्थमुत्थाप्य निराकरोति - नापीति / फलानुमेयगुणतया वक्तुमिष्टं यत् तत् कारकं कर्तृ नेतरदित्यत्र यद् यदा फलानुगणतया वक्तुमिष्यते तत् तदा कर्तृ[कार]कं भवति, यदा तु वक्तुमिच्छा न भवति तदा न, कर्तृत्वे वा सर्वकर्तृ प्राप्तमित्यर्थः / अत्र शङ्कते - स्वव्यापारेति / समाधत्ते - एवं तीति / प्रधानक्रियोद्देशेन प्रवृत्तिरपि न कर्तृव्यवहारबीजम्, सर्वकारकाणां तथात्वप्रसङ्गस्य दुर्वारत्वात् / न च वाच्यम् आरादुपकारकत्वात् / सन्निपत्योपकारकं करणम्, करणव्यापारोपकारकं कर्मेत्यादि / कर्तुरपि करणवत् सन्निपत्योपकारकत्वाविशेषः / पूर्वं धात्वर्थस्य फलानुकूलत्वमाशङ्क्य परिहतं संप्रति लातोतते' यद्विशेषात् तद्व्यापरस्य व्यवहारपर्यन्तमनुवृत्तेः / तस्मादन्यस्य कर्तव्यं(र्तृव्य)वस्थितस्यासम्भवात् कर्तृव्यवहारनिमित्तं प्रयत्नादिसमवाय एव प्रष्टव्य इत्याह - प्रयत्नादीति / न त्वनन्यलभ्यः शब्दार्थः इति मतिः। प्रकारान्तरलभ्यस्य प्रयत्नस्य न प्रत्ययवाच्यतेत्याशयवान् शङ्कते - तथापीति / 1. भ्रष्टः पाठः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy