________________ 165 * न्यायकुसुमाञ्जलि स्तबकः 5 इति / पाचको हि धात्वर्थः तस्यौदनफलानुकूलत्वे 'देवदत्तः काष्ठेरोदनं पचति' इतिवद् ओदनं पाकेन पचतीति प्रयोगप्रत्ययप्रसङ्गात् / न चैव[म]स्त्विति वाच्यम् / किं करोति / पचति पाकं करोतीति सर्वजनसिद्धत्वादित्याशयवान् समाधत्ते - भवेदप्येतदिति / सुबोधमन्यत् / कस्यचित् फलानुकूलतामाशङ्क्य परिहरति - स्यादेतदित्यादिना / अत एवेति / चिकीर्षाप्रभवो हि प्रयत्नः स्वसाध्यमनागतं भावयति / तत्र फलापेक्षया तस्य पूर्वावस्था सा यत्नः कृतिः चिति: वाभिधीयते / 142. अत्रोच्यते - कृताकृतविभागेन कर्तृरूपव्यवस्थया / यत्न एव कृतिः पूर्वा परस्मिन् सैव भावना // 9 // यत्नपूर्वकत्वं हि प्रतिसन्धाय घटादौ कृत इति व्यवहारात् / हेतुसत्त्वप्रतिसन्धानेऽपि यत्नपूर्वकत्वप्रतिसन्धानविधुराणामङ्करादौ तदव्यवहारात् करोत्यर्थो यत्न एव तावदवसीयते / अन्यथा हि यत्किञ्चिदनुकूलपूर्वकत्वाविशेषाद् घटादयः कृताः, न कृतास्त्वकुरादय इति कुतो व्यवहारनियमः / तेन च सर्वमाख्यातपदं विव्रियते इति सर्वत्र स एवार्थ इति निर्णयः / तथा च समुदिते प्रवृत्तं पदं तदेकदेशेऽपि प्रयुज्यते, विशुद्धिमात्रं पुरस्कृत्य ब्राह्मणे श्रोत्रियपदवत् / अन्यथाऽपि मध्यमोत्तमपुरुषगामिनः प्रत्ययाः, प्रथमे पुरुषे जानाति इच्छति प्रयतते अध्यवस्यति शेते संशेते इत्यादयश्च गौणार्था एवाचेतनेषु / न च वृत्त्यन्तरेणापि प्रयोगसम्भवे शक्तिकल्पना युक्ता / अन्यायश्चानेकार्थत्वमिति स्थितेः / _142. सैव कृतिरेव भावना किंविशिष्टा, पूर्वापरीभूता पूर्वापरीभूतत्वे सतीत्यर्थः / न चैवंभूतो यत्नपदस्यार्थः / ततश्च यत्न एव भावना, न तु व्यापार इत्यर्थः / करोत्यर्थो यत्न एवेति कुत इत्यत उक्तं घटाद्यङ्करादीनां हे[तु] मत्त्वाविशेषेऽपि कृताकृतव्यवहारनियमेन / अत्र च युक्त्यन्तरमाह - कर्तृरूपेति / नन्वेवमपि पूर्वापरी[136B]भूतत्वं यत्नत्वमनुकूलत्वं चेति त्रितयमेवाऽऽख्यातवाच्यम्, त्रितयाभावे च कथमाख्यातपदं प्रवर्तत इत्याशङ्क्याह - तथा चेति / यत्नस्य पूर्वापरीभूतत्वानुकूलत्वे प्रवृत्तमाख्यातम्, जातं फलानुकूलत्वं तावत् किं धात्वर्थस्य, 'रथो गच्छति' इत्यादौ प्रयुज्यते ? लोके भाक्तः प्रयोग इति तात्पर्यम् / समुदिते प्रवृत्तस्य पदस्यैकदेशेऽपि प्रवृत्तिरित्यत्र निदर्शनमाह - विशुद्धमात्रमिति। उक्तं च - जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते / विद्यया याति विप्रत्वं श्रोत्रियस्त्रिभिरेव च // अतो जन्म-संस्कार-विद्यासु तिसृषु श्रोत्रियपदं प्रवर्तत इत्युक्तम् / तथा च क्वचित् ब्राह्मणमात्रे प्रयोगो भाक्त इत्यर्थः / अपि च अचेतनेष्वपि सर्वत्र गौणार्थत्वं मा भूदित्याभिमानिको यत्र वाच्यताविशेषस्तच्चोभयथाऽप्यर्जनीयमायातमित्याह - अन्यथेति / यथा देवदत्त-यज्ञदत्तयोः परस्परयुद्धे 'त्वं यदि शरान् मुञ्चस्यहमपि शरान् मुञ्चामि' इतिवच्चित्रस्थयोरपि परस्परसम्मुखयुद्धे 'त्वं यदि शरान् मुञ्चस्यहमपि शरान् मुञ्चामि' इति प्रत्ययप्रयोगयोस्तुल्यत्वादेकत्रमुख्यत्वमन्यत्र गौणत्वम् / तथा च देवदत्तो जानाति इच्छति यतते अध्यवस्यति शेते संशेते इति लोके प्रत्ययप्रयोगौ तथा चित्रस्थयोरपि(स्था अपि) जानन्ति इच्छन्ति यतन्ते अध्यवस्यन्ति शेरते संशेरत इत्यपि प्रत्ययप्रयोगौ तुल्याविति / एवं तावद् ‘गङ्गायां जलं' '[गङ्गयां] घोषः' वन्मुख्यगौणार्थत्वव्यवस्थितेः सर्वजनसिद्धत्वेन दुष्परिहरत्वादित्युक्तम् - संप्रत्यक्षादिशब्दवदनेकार्था एव जानातीत्यादयः शब्दाः