SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 164 * वामध्वजकृता सृङ्केतटीका प्रकृतिरूपस्य कृञः प्रयत्नवाचकत्वेऽन्यस्य करोतीत्यादौ लिङादेस्तद्विपर्ययस्तदवाचकत्वमापद्यते / प्रकृतिप्रत्यययोः समानार्थयोरपि क्व[चिद्] विशिष्टप्रयोगो दृश्यत इत्यत आह - एको द्वावित्यादि / अथैवममीषां नैकार्थत्वमात्रम्, किं तर्हि भिन्नार्थतेत्यत्रापि समानमुत्तरमित्याहुः - तत्र द्वितीयसङ्ख्येति / यद्येक इत्यत्र प्रातिपदिकेनाप्यन्यदेकत्वमभिधीयते विभक्त्याऽप्यन्यदित्यभिमतं तदा करोतीत्यत्रापि प्रकृत्याऽप्यन्यः प्रयत्नोऽभिधीयते [135B] प्रत्ययेनाऽप्यन्य इति समः समाधिरित्यर्थः / ननु प्रयत्नसम्भवासम्भवाभ्यां करोतेः प्रयोगदर्शना[द्] 'देवदत्तो गच्छति' 'रथो गच्छति' ततश्च धात्वर्थसामान्यमेव करोत्यर्थ इति साम्प्रतम् / यथोक्तम् - भावाभावप्रयोगस्य द्विविधा खलु दर्शनात् / धात्वर्थवति सामान्य(न्यं) करोत्यर्थमुपागमत् // इत्याशयवानाशङ्कते - रथो गच्छतीति / 141. तन्तवः पटं कुर्वन्तीत्यत्र या / लोकोपचारोऽयमपर्यनुयोज्य इति चेत्, तुल्यम् / लिङः कार्यत्वे वृद्धव्यवहाराद् व्युत्पत्तौ सर्वं समञ्जसम् / आख्यातमात्रस्य तु न तथेति चेत् / न, विवरणादेरपि व्युत्पत्तेः / अस्ति च तदिह - किं करोति ? पचति पाकं करोतीत्यर्थः इत्यादिदर्शनात् / तथापि फलानुकूलताऽऽपन्नधात्वर्थमात्राभिधाने तदतिरिक्तप्रयत्नाभिधानकल्पनायां कल्पनागौरवं स्यात्, अतो विवरणमपि तावन्मात्रपरमिति चेत् / भवेदप्येवं यदि पाकेनेति विवृणुयात्, न त्वेतदस्ति / धात्वर्थस्यैव पाकमिति साध्यत्वेन निर्देशात् / ततस्तं प्रत्येव किञ्चिदनुकूलताऽऽपन्नं प्रत्ययेनाभिधानीयमिति युक्तम् / तथापि तेन प्रयत्नेनैव भवितव्यम्, न त्वन्येनेति कुत इति चेत् / नियमेन तथा विवरणात् / बाधकं विना तस्यान्यथाकर्तुमशक्यत्वात् / अन्यथा अतिप्रसङ्गात् / स्यादेतत्, यस्य कस्यचित् फलं प्रत्यनुकूलतापत्तिमात्रमेव करोत्यर्थः, न तु प्रयत्न एव, सोऽपि ह्यनेनैवोपाधिना प्रत्ययेन वक्तव्यः, न तु यत्नत्वमात्रेण, प्रयत्नपदेनाविशेषप्रसङ्गात्, तद्वरं तावन्मात्रमेवास्तु लाघवाय, अन्यथा त्वनुकूलत्वप्रयत्नत्वे द्वावुपाधी कल्पनीयौ, अचेतनेषु सर्वत्र गौणास्तिङोऽसति बाधके कल्पनीया इति चेत् / ___141. 'गङ्गायां जलम्' 'गङ्गायां घोषः' इतिवल्लौकिकप्रयोगस्योभयथादर्शनादित्याशयवान् परिहरति - तन्तव इति / न च वाच्यं तन्तव: पटं कुर्वन्तीत्यत्र मुख्यार्थत्वे किमनुपपन्नम् / न हि करोतिरपि प्रयत्नार्थः किन्तु क्रियासामान्यवचन इत्यभ्युपगमः / नापि तन्तूनां कर्तृत्वानुपपत्तिः, न हि ज्ञानां(ना)दिसमवायकर्तृत्वं, किन्तु कारकाव(न्त)रनैरपेक्ष्यमित्यन्ये / धातुप्रत्ययमभिधीयमानव्यापारवत्त्वमर्थोऽपि तन्तवः पटमुत्पादयन्ति / मिथो यः संयोगः स तेषामुत्पादनमिति / न चैवं काचिदनुपपत्तिराविरस्तीति / स्यादेतदित्यादिनैतदेवाशक्य तदेव निराकरिष्यमाणत्वादिति / इह प्राभाकरा अपि 'भावार्थाः कर्मशब्दाः' इति सूत्रस्थाच्छब्दद्वयादित्यादितो धात्वर्थ एकां काञ्चिदवस्थामापन्नो भाव इति व्याचक्षते / तथाहि धातुः स्वरूपेण भावमाचष्टे, आख्यातं तु यावता कर्मक्षणे निरूपणं फलं सिद्ध्यति तावति वर्तते, 'ओदनं पचति' इति दर्शनात्, न टेकेन कर्मक्षणेनोदनः सिद्धयतीति / तदर्थस्य आख्यातप्रयोगो विरुध्यते / [136A] अतः फलार्थो व्यापारसमूहो भाव्यत्वाद् भावनेत्युच्यते, भाव्यमानश्चासौ फलं साधयतीत्याशङ्कते-तथापीति / अयमर्थः / योऽयं पाकादिरूपो धात्वर्थस्तस्य या फलानुकूलता सैवाख्यातप्रत्ययेनाभिधीयताम् / अन्यथा कल्पनागौरवात् / न तु प्रयत्नाभिधानकल्पना, तत्र प्रमाणाभावात् / तस्माद् विवरणमपि करोतीत्यादिपदं धात्वर्थस्यैव फलानुकूलतामुपदर्शयति / न [तु] प्रयत्न
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy