________________ 163 * न्यायकुसुमाञ्जलि स्तबकः 5 _139. विधिरिति / यद्विज्ञानं चिकीर्षाप्रसूते(तं) स विधिस्त[ज्]ज्ञापको वा / नियोज्यानामस्मदादीनां प्रवृत्तौ यः पुरुषस्याभिप्रायः तेन हि प्रवृत्तेरिष्टाभ्युपायता प्रतीयते, दर्शयिष्यते चैतदने / चिकीर्षाजनकज्ञान(प)कज्ञानविषयस्य क्रियमाणसाधनत्वादेर्योऽनुमापकः सोऽपि विधिरित्यर्थः / प्रवर्तना प्रवृत्तौ प्रयोजकव्यापारनियुक्तिरपि सैव / एतत् सर्वमितरवादिसम्मतपक्ष[134B]निरसनमन्तरेण व्यवतिष्ठत इति सम्भवितपक्षं निराकर्तुमुपन्यस्यति - स हि कर्तृधर्मो वेत्यादि / प्रथमद्वितीयतृतीयपक्षनिरसने चतुर्थपक्षव्यवस्थितौ पुरुषाभिप्रायसिद्धावभिप्रायाधारपुरुषविशेष ईश्वरः सेत्स्यतीति दूरे निर्णयो भविष्यतीति विकल्पतात्पर्य[म्] / अनुपलब्धलिङ्गाम(द)पीच्छोत्पद्यते, न प्रवृत्तिरित्यतिप्रसङ्गात् / ज्ञानस्य च विषयोपहारद्वारा प्रवर्तकत्वे विषय एव विधिरिति समुदायार्थः / एतच्च सर्वं विस्तरेण स्पष्टी भवितान्यामन्दबुद्धिभिरभियुक्तैर्विविच्यते / 140. न प्रथमः / ___इष्टहानेरनिष्टाप्तेरप्रवृत्तेविरोधतः / स हि न स्पन्द एव, आत्मानमनुपश्येदित्याद्यव्याप्तेः / ग्रामं गच्छतीत्यादावतिव्याप्तेश्च / नापि तत्कारणं प्रयत्नः / तस्य सर्वाख्यातसाधारणत्वात् / ननु न सर्वत्र प्रयत्न एव प्रत्ययार्थः / करोतीत्यादौ प्रकृत्यर्थातिरेकिणस्तस्याभावात् / संख्यामात्राभिधानेन प्रत्ययस्य चरितार्थत्वात् / ततो लिङ्गादिवाच्य पन्नस्य प्रत्ययार्थत्वान्न तुल्यत्वमिति चेत् / न, तथापि तुल्यत्वात् / न चैकस्य तद्वाचकत्वेऽन्यस्य तद्विपर्यय आपद्येत / एको द्वौ बहव एषिषतीत्यादौ व्यभिचारात् / तत्र द्वितीयसंख्येच्छादिकल्पने करोति प्रयतते इत्यादावपि तथा स्यात् / प्रत्येकमन्यत्र सामर्थ्यावधृतौ सम्भेदे तथा कल्पनायास्तुल्यत्वात् / रथो गच्छतीत्यादौ तदसम्भवे का गतिरिति चेत् / ____140. कर्केति प्रयोज्यवृद्धम(मु)पदिशति / कर्तृधर्म इति कर्तुरनुष्ठातुर्धर्मः किं स्पन्दो वा तत्कारणं प्रयत्नो वा तत्कारणमिच्छा वा तत्कारणं ज्ञानं वेति विकल्पाः / तत्र प्रथमे इष्टहानेरनिष्टाप्तेरिति बाधकम् / द्वितीयेऽप्रवृत्तेरिति, विरोधत इति सङ्करादिति च / न हि यत्नो यत्नस्य हेतुर्यत्नप्रतीतेर्वा / यत्नस्य कारणमपि त्विच्छेति / यत्नस्य यत्नहेतुत्वे स्वात्मनि वृत्तिविरोध इति / सर्वाख्यातसाधारणत्वेन सङ्कर इति / तृतीये असत्त्वादित्युत्तरः, न च लिशवणकाले सा सती / [135A] उत्तरदृष्टे उपान्त्यपङ्क्तौ त्रुटिर्कीद्वय्या लिडेव तां जनयतीत्यादिना प्रतिपत्तव्यम् / लिङेव तां जनयतीत्याशय प्रत्ययत्यागादित्युत्तरम् / स हीत्यादिना अतिव्याप्तेरित्यन्तेन इष्टहानेरनिष्टाप्तेरिति विवृतम् / सर्वाख्यातसाधारण्यादित्यनेन। सङ्करादिति विपञ्चितम् / आख्यातमात्रेण न प्रयत्नोऽभिधीयते किन्तु ली(लि)ङादिवाच्यः प्रयल इति स(म)तमाशङ्कते - नन्विति / ननु प्रकृत्यर्थातिरेकिणः प्रत्ययार्थस्याभावे प्रत्ययप्रयोगवैयर्थ्यमित्यत्र आह - सङ्ख्येति / यदि प्रकृत्यातिरिक्तप्रत्ययाभावात् सङ्ख्यामात्र अभिधानमन्यत्र तदा प्रकृतेऽपि प्रकृत्यातिरिक्तप्रयत्नाभावात् सङ्ख्यामात्राभिधानमस्त्वित्याशयवान् परिहरति - न, कुर्यादित्यत्रेति / करोत्यर्थो यत्नमात्रम् / प्रत्ययार्थस्तु तस्य देवदत्तादिसम्बन्धितेति / विशे[ष]माशङ्क्य तुल्यत्वेन समाधत्ते - प्रयत्नमात्रस्येति / किंचकत्वे (किञ्च प्रकृतेर्धात्वर्थवाचकत्वे) प्रत्ययस्यापि तद्वाचकत्वमविरोधादन्यत्र प्रकृतिप्रत्यययोस्तथादर्शनाच्चेति दर्शयति - न चैकस्येति / एकस्य