SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 162 * वामध्वजकृता सृङ्केतटीका पत्तिरिति / एतेन रुद्र-उपेन्द्र-महेन्द्रादिदेवताविशेषवाचका व्याख्याताः / अपि च अस्मत्पदं लोकवद् वेदेऽपि प्रयुज्यते, तस्य च लोके नाचेतनेष्वन्यतमदर्थः, तत्र सर्वथैवाप्रयोगात् / नाप्यात्ममात्रमर्थः, परात्मन्यपि प्रयोगप्रसङ्गात् / अपि तु यस्तं स्वातन्त्र्येणोच्चारयति तमेवाह तथैवान्वयव्यतिरेकाभ्यामवसायात् / ततो लोकव्युत्पत्तिमनतिक्रम्य वेदेऽप्यनेन स्वप्रयोक्तैव वक्तव्यः, अन्यथाऽप्रयोगप्रसङ्गात् / न च यो यदोच्चारयति वैदिकमहंशब्दं स एव तदा तस्यार्थ इति युक्तम् / तथा सति मामुपासीतेत्यादौ स एवोपास्यः स्यात् / अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इत्युपाध्यायशिष्यपरम्परैवात्मन्यैश्वर्यं समधिगच्छेत्, तथा च उपासनां प्रत्युन्मत्तकेलिः स्यात् / लोकव्यवहारश्चोच्छिद्येत / तस्मान्नानुवक्ताऽस्य वाच्योऽपि तु वक्तैवेति स्थिते प्रयुज्यते वेदे अस्मच्छब्दः स्वप्रयोक्तृवचनः अस्मच्छब्दत्वाल्लोकवदिति / एवमन्येऽपि यः कः स इत्यादिशब्दाः द्रष्टव्याः / तेषां बुद्ध्युपक्रमप्रश्नपरामर्शाद्युपहितमर्यादत्वात्, तस्य च वक्तृधर्मत्वात् / बुद्ध्युपक्रमो हि प्रकृतत्वम्, जिज्ञासाऽऽविष्करणं च प्रश्नः, प्रतिसन्धानं च परामर्शः इति / एवं च संशयादिवाचका अप्युन्नेयाः / न च जिज्ञासासंशयादयः सर्वज्ञे प्रतिषिद्धा इति युक्तम् / शिष्यप्रतिबोधनायाहार्यत्वेनाविरोधात् / को धर्मः कथंलक्षणक इत्यादिभाष्यवदिति / एतेन धिगहो बत हन्तेत्यादयो निपाता व्याख्याताः / 138. प्रागेव प्रतिषेधादिति / प्रमाणबाधकस्य पूर्वपूर्वप्रमाणनिरपेक्षमुत्तरोत्तरप्रमाणमिति हृदि निधाय प्रमाणाभावमाशङ्क्योभयसिद्धस्वर्गतुल्यतया समाधाय प्रयोगमाह - अत्रापीत्यादिना जगत्कर्तरीत्यन्तेन / विपक्षे बाधकमाह - अन्यथेति / को धर्म इति / 'अथातो धर्मजिज्ञासा' इति सूत्रमवतारयितुं शिष्यजिज्ञासामुपादाय कारिकाप्रथमपादभाष्यम् - 'को धर्मः कथंलक्षणकः कान्यस्य साधनानि' इत्यादि / तत्र यथेत्यर्थः / एतेनेति बुद्ध्याधुपक्रमादीनां पक्षधर्मत्वेन / धिगादिशब्दार्थानामपि पक्षधर्मत्वादित्यर्थः / धिक्पदं निन्दामाचष्टे / निन्दा चाप्रशस्तज्ञानम् / 'अहो' आश्चर्यमाचष्टे अपूर्वोऽयम् अपूर्वोऽदृष्टपूर्वोऽयमिति / बुद्धिराश्रयी / बतपदं खेदमाचष्टे। दुःखानुभवश्च खेदः / हन्तपदं सोभन(संबोधन)माह / सम्बोधनं च संबोध्यविषयवक्तृज्ञानमिति / 139. प्रत्ययादपि लिङादिप्रत्यया हि पुरुषधौरेयनियोगार्था भवन्तस्तं प्रतिपादयन्ति / तथाहि प्रवृत्तिः कृतिरेवात्र सा चेच्छातो यतश्च सा / तज्ज्ञानं विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा // 7 // __ प्रवृत्तिः खलु विधिकार्या सती न तावत् कायपरिस्पन्दमात्रम्, आत्मा ज्ञातव्य इत्याद्यव्यापनात् / नापीच्छामात्रम्, तत एव फलसिद्धौ कर्मानारम्भप्रसङ्गात् / ततः प्रयत्नः परिशिष्यते / आत्मज्ञानभूतदयादावपि तस्याभावात् / तदुक्तम् - 'प्रवृत्तिरारम्भः' इति / सेयं प्रवृत्तिर्यतः सत्तामात्रावस्थितात् नासौ विधिः, तत्र शास्त्रवैयर्थ्यात् / अप्रतीतादेव कुतश्चित् प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात् / न च प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात् / न च प्रवृत्तिहेतुजननार्थं तदुपयोगः, प्रवृत्तिहेतोरिच्छाया ज्ञानयोनित्वात् / ज्ञानमनुत्पाद्य तदुत्पादनस्याशक्यत्वात्, तस्य च निरालम्बनस्यानुत्पत्तेरप्रवर्तकत्वाच्च, नियामकाभावात् / तस्माद् यस्य ज्ञानं प्रयत्नजननीमिच्छां प्रसूते सोऽर्थविशेषस्तज्ज्ञापको वाऽर्थविशेषो विधिः प्रेरणा प्रवर्तना नियुक्तिर्नियोग उपदेश इत्यनर्थान्तरमिति स्थिते विचार्यते / स हि कर्तृधर्मो वा स्यात्, कर्मधर्मो वा, करणधर्मो वा, नियोक्तृधर्मो वेति /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy