________________ 161 * न्यायकुसुमाञ्जलि स्तबकः 5 किमार्यप्रसिद्धिगोचरा शक्तिरन्यत्र गौणी / न म्लेच्छप्रसिद्धिसिद्धैव शक्तिः पुनरार्यप्रसिद्धिगोचरा / अथ मतं यत्र वाक्यशेषोपबृंहणं तत्र शक्तिरवधार्यते, वाक्यशेषोपबृंहणं चार्यप्रसिद्धिसिद्धेष्विति / तदपि न मनोहरम्, यतो हि वाक्यशेषबलेन तात्पर्यमात्रमवधार्यते न तु शक्तिः / न च तात्पर्यशक्तिर्नियता, अशक्तिगोचरस्यापि तात्पर्यगोचरत्वदर्शनात. यथा गङ्गापदस्य तीरे / न च वाक्यविशे]षादपि विशेषधीः / वाक्यशेषो हि. गावोऽनुधावन्ति' [133B] 'अप्सुजो वेतसः' इत्येवमाकारः / न च गोसादृश्यं शूरकस्यैव, न च जलजातत्वं वेतसस्यैव वा / अथ मतं वाक्यशेषं प्रचलिता(त)व्यवहाराच्छक्तिनिरूप्यत इति / तदपि न सारम् / व्यवहारस्योभयत्रापि दर्शनात् / यथाहि क्वचिदार्यव्यवहारस्तथा म्लेच्छव्यवहारोऽपि क्वचिद् दृश्यते / न च योग्यतया विशेषावगतिः / उभाभ्यामपि चरूस(रुस)भवात् / ततश्च शक्तेरज्ञानात् 'यवमयश्चरुर्भवति' इत्येवमादिवाक्यानां नित्यमनध्यवसितार्थत्वेन नित्यमप्रामाण्यमिति पूर्वपक्षः / अत्र सिद्धान्तसूत्रम् - शास्त्रस्य वा तन्निमित्तत्वादिति / शास्त्रस्था प्रसिद्धिरादरणीया, तन्निमित्तत्वादार्यव्यवहाराः / वाशब्दः पूर्वपक्षनिवृत्तौ / न चैवं पिकादिपदेष्वपि म्लेच्छप्रसिद्धरनादरप्रसङ्गः / तत्र तेषामेवाभिप्रायायोगात् / तदुक्तम् - तत्र तत्त्वमभियोगविशेषान(त्) स्यादिति / प्रायसः(शः) पक्षिणो विषये म्लेच्छा एवाभियुक्ता इति / प्रकृते चार्याणामेवाभियोगात् / यथोक्तम् - नवा(तथो)च्यन्ते क्वचिद् देशे यवा एव प्रियंगवः / जतून(नं) वेतसं प्राहुर्वराहं नै(चै)व वायसम् // इति / / प्रकृते म्लेच्छप्रसिद्धराचरणे वाक्यशेषविरोधश्च / तथाहि मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः / वराहं गावोऽनुधावन्त्यप्सुजो वेतसः स्मृतः // इत्यादि वाक्यशेषा दीर्घशूकशूकरवेतसेष्वर्यय(वार्य)व्यवहारसामर्थ्यात् शक्तिप्रतीतिरुपपद्यते न तु म्लेच्छादिगोचरे प्रियङ्ग्वादौ / आमोदमानत्वाच्च कङ्गना व्यवहारद्वयमहिमसमुपजातं संशय(यं) मनीषाद् उपितं वाक्यशेषविषयम(मुन्मूलयति / निष्प्रतिपक्षार्यव्यवहारलिङ्गकानुमानाद् विशेषविषयशक्तिनिश्चयाद् ‘यवमयश्चरुर्भवति' इत्येवमादिनाऽनुष्ठानस्योपपत्ते त्राप्रामाण्यमिति न पूर्वप[134A]क्षावकाशः / पिकादिषु म्लेच्छप्रसिद्धयादरे न कश्चिद् वाक्यशेषविरोध इति संक्षेपः / तथेहापि सर्वज्ञान( सर्वज्ञ )ता तृप्तिरित्येवमादि वाक्यशेषसंवलितात् पदार्थलिङ्गकादनुमानादीश्वरादिपदानां पुरुषविशेषशक्तिरवधार्यत इत्यर्थः / 138. एवम्भूतोऽर्थः प्रमाणबाधित इति चेत्, न / प्रागेव प्रतिषेधात् / तथापि न तत्र प्रमाणमस्तीति चेत् / स्वर्गे अस्तीति का श्रद्धा / न ह्युक्तविशेषणे सुखे किञ्चित् प्रमाणमस्त्यस्मदादीनाम् / याज्ञिकप्रवृत्त्यन्यथानुपपत्त्या तथैव तदित्यवधार्यते इति चेत्, न / इतरेतराश्रयप्रसङ्गात् - अवधृते हि स्वर्गरूपे तत्र प्रवृत्तिः, प्रवृत्त्यन्यथानुपपत्त्या च तदवधारणमिति / पूर्ववृद्धप्रवृत्त्या तदवधारणेऽयमदोष इति चेत्, न / अन्धपरम्पराप्रसङ्गात् / विशिष्टादृष्टवशात् कदाचित् कस्यचिदेवंविधमपि सुखं स्यादिति नास्ति विरोधः, तन्निषेधे प्रमाणाभावादिति चेत् / तुल्यमितरत्रापि / अत्रापि प्रयोगः - यः शब्दो यत्र वृद्धैरसति वृत्त्यन्तरे प्रयुज्यते स तस्य वाचकः, यथा स्वर्गशब्दः सुखविशेष प्रयुज्यमानस्तस्य वाचकः, प्रयुज्यते चायं जगत्कर्तरीति / अन्यथा निरर्थकत्वप्रसङ्गे सार्थकपदकदम्बसमभिव्याहारानुप